इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥

अन्वयः AI इति तेभ्यः यथार्थाः हृदयंगमाः स्तुतीः श्रुत्वा प्रसाद-अभिमुखः वेधाः दिवौकसः प्रति-उवाच ।
सञ्जीविनीटीका (मल्लिनाथः) इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । `आख्यातोपयोगे` (अष्टाध्यायी १.४.२९ ) इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे `गमेः सुप्युपसंख्यानम्` इति खच्प्रत्ययः । `अरुर्द्विषजन्तस्य मुम्` इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच
Summary AI Having heard these truthful and heart-touching praises from the gods, the Creator Brahma, inclined to show favor, replied to the heaven-dwellers.
सारांश AI देवताओं द्वारा की गई इस यथार्थ और प्रिय स्तुति को सुनकर ब्रह्मा प्रसन्न हुए और उन्होंने उन देवताओं को उत्तर दिया।
पदच्छेदः AI
इतिइति thus
तेभ्यःतद् (५.३) from them
स्तुतीःस्तुति (२.३) praises
श्रुत्वाश्रुत्वा (√श्रु+क्त्वा) having heard
यथार्थाःयथाअर्थ (२.३) truthful
हृदयंगमाःहृदयम्हृदयंगम (√गम्, २.३) heart-touching
प्रसादाभिमुखःप्रसादअभिमुख (१.१) inclined to favor
वेधाःवेधस् (१.१) the Creator (Brahma)
प्रत्युवाचप्रत्युवाच (प्रति√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) replied
दिवौकसःदिवौकस् (२.३) to the gods
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ति ते भ्यः स्तु तीः श्रु त्वा
था र्था हृ यं माः
प्र सा दा भि मु खो वे धाः
प्र त्यु वा दि वौ सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.