Loading data... On slow networks this could take a few minutes.
100%

त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥

अन्वयः AI त्वम् एव हव्यम्, होता च, भोज्यम्, शाश्वतः भोक्ता च, वेद्यम् च, वेदिता च, ध्याता, यत् परम् ध्येयम् च (तत् त्वम्) असि ।
सञ्जीविनीटीका (मल्लिनाथः) त्वमेवेति । शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि `कालाट्ठञ्` (अष्टाध्यायी ४.३.११ ) इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- `येषां च विरोधः शाश्वतिकः` (अष्टाध्यायी २.४.९ ) इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । `भोज्यं भक्ष्ये` (अष्टाध्यायी ७.३.६९ ) इति निपातनात्कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्य वस्तुवेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम्
Summary AI "You alone are the oblation and the priest, the object of enjoyment and the eternal enjoyer. You are that which is to be known and the knower, the meditator and the supreme object of meditation."
सारांश AI आप ही हवन सामग्री और अग्निहोत्र करने वाले हैं, आप ही भोग्य वस्तु और भोक्ता हैं, आप ही ज्ञाता और ज्ञेय हैं तथा आप ही ध्याता और परम ध्येय हैं।
पदच्छेदः AI
त्वम्युष्मद् (१.१) you
एवएव alone
हव्यम्हव्य (√हु+यत्, १.१) the oblation
होताहोतृ (√हु+तृच्, १.१) the offerer
and
भोज्यम्भोज्य (√भुज्+ण्यत्, १.१) the object of enjoyment
भोक्ताभोक्तृ (√भुज्+तृच्, १.१) the enjoyer
and
शाश्वतःशाश्वत (१.१) the eternal
वेद्यम्वेद्य (√विद्+ण्यत्, १.१) that which is to be known
and
वेदितावेत्तृ (√विद्+तृच्, १.१) the knower
and
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
ध्याताध्यातृ (√ध्यै+तृच्, १.१) the meditator
ध्येयम्ध्येय (√ध्यै+यत्, १.१) the object of meditation
and
यत्यद् (१.१) which
परम्पर (१.१) supreme
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्व मे व्यं हो ता
भो ज्यं भो क्ता शा श्व तः
वे द्यं वे दि ता चा सि
ध्या ता ध्ये यं त्प रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.