त्वं पितॄणामपि पिता देवानामपि देवता ।
परतोऽपि परश्चासि विधाता वेधसामपि ॥

अन्वयः AI त्वम् पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतः अपि परः, वेधसाम् अपि विधाता च असि ।
सञ्जीविनीटीका (मल्लिनाथः) त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि
Summary AI "You are the father even of the ancestors, the deity even of the gods. You are higher than the high, and the creator even of other creators." This verse establishes Brahma's supreme position in the cosmic hierarchy.
सारांश AI आप पितरों के भी पिता, देवताओं के भी देवता, श्रेष्ठों से भी श्रेष्ठ और सृजनकर्ताओं के भी सृजनकर्ता हैं।
पदच्छेदः AI
त्वम्युष्मद् (१.१) you
पितॄणाम्पितृ (६.३) of the ancestors
अपिअपि even
पितापितृ (१.१) the father
देवानाम्देव (६.३) of the gods
अपिअपि even
देवतादेवता (१.१) the deity
परतःपरतः than the high
अपिअपि even
परःपर (१.१) higher
and
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) you are
विधाताविधातृ (वि√धा+तृच्, १.१) the creator
वेधसाम्वेधस् (६.३) of the creators
अपिअपि even
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्वं पि तॄ णा पि पि ता
दे वा ना पि दे ता
तो ऽपि श्चा सि
वि धा ता वे सा पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.