त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥

अन्वयः AI (ज्ञानिनः) त्वाम् पुरुषार्थ-प्रवर्तिनीम् प्रकृतिम् आमनन्ति । (ते) तत्-दर्शिनम् उदासीनम् त्वाम् एव पुरुषम् विदुः ।
सञ्जीविनीटीका (मल्लिनाथः) त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्` । इति यादवः । आमनन्ति कथयन्ति । `म्ना अभ्यासे` इति धातोर्लट् । `पाघ्राध्मास्थाम्ना-` इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । `विदो लटो वा` (अष्टाध्यायी ३.४.८३ ) इति झेर्जुसादेशः । `अजामेकां लोहितशुक्लकृष्णाम्` इति श्रुतिरत्र प्रमाणम्
Summary AI "The wise consider you to be Prakriti, which impels beings towards the goals of life. They also know you alone to be the indifferent witness of it, the Purusha." This verse identifies Brahma with both fundamental principles of Samkhya philosophy.
सारांश AI ज्ञानी लोग आपको ही पुरुषार्थों की सिद्धि के लिए प्रवृत्त होने वाली 'प्रकृति' और उस प्रकृति को देखने वाला निर्लिप्त 'पुरुष' मानते हैं।
पदच्छेदः AI
त्वाम्युष्मद् (२.१) you
आमनन्तिआमनन्ति (आ√मन् कर्तरि लट् (आत्मने.) प्र.पु. बहु.) they consider
प्रकृतिम्प्रकृति (२.१) Prakriti (primal matter)
पुरुषार्थप्रवर्तिनीम्पुरुषार्थ–प्रवर्तिनी (प्र√वृत्+णिनि, २.१) the impelling force for the goals of human life
तद्दर्शिनम्तत्दर्शिन् (√दृश्+णिनि, २.१) the witness of that
उदासीनम्उदासीन (उद्√आस्, २.१) indifferent
त्वाम्युष्मद् (२.१) you
एवएव alone
पुरुषम्पुरुष (२.१) Purusha (the conscious principle)
विदुःविदुः (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they know
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्वा मा न्ति प्र कृ तिं
पु रु षा र्थ प्र र्ति नीम्
द्द र्शि मु दा सी नं
त्वा मे पु रु षं वि दुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.