उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥

अन्वयः AI यासाम् गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणम्, कर्म यज्ञः, फलम् स्वर्गः (अस्ति), तासाम् गिराम् त्वम् प्रभवः (असि) ।
सञ्जीविनीटीका (मल्लिनाथः) उद्घात इति ॥ हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । `ओंकारप्रणवौ समौ` इति । `स्यादभ्यादानमुद्घात आरम्भः` इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । `ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥` इति निरुक्तपरिशिष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- स्वरविशेषादर्थप्रतिपत्तिः` । `यथेन्द्रशत्रुः स्वरतोऽपराधात्` इति । यासां गिरां त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन
Summary AI "You are the source of those Vedic utterances for which the syllable 'Om' is the beginning, which are recited with the three accents, whose prescribed action is sacrifice, and whose fruit is heaven."
सारांश AI ओंकार जिनका प्रारंभ है, जो तीन प्रकार के स्वरों से उच्चारित होती हैं और जिनका फल यज्ञ एवं स्वर्ग है, उन समस्त वाणियों के उद्गम आप ही हैं।
पदच्छेदः AI
उद्घातःउद्घात (उद्√हन्, १.१) the beginning
प्रणवःप्रणव (१.१) the syllable Om
यासाम्यद् (६.३) of which
न्यायैःन्याय (३.३) by the three accents
त्रिभिःत्रि (३.३) by three
उदीरणम्उदीरण (उद्√ईर्+ल्युट्, १.१) the utterance
कर्मकर्मन् (१.१) the action
यज्ञःयज्ञ (१.१) the sacrifice
फलम्फल (१.१) the fruit
स्वर्गःस्वर्ग (१.१) heaven
तासाम्तद् (६.३) of those
त्वम्युष्मद् (१.१) you
प्रभवःप्रभव (प्र√भू, १.१) the source
गिराम्गिर् (६.३) of words (Vedic speech)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्घा तः प्र वो या सां
न्या यै स्त्रि भि रु दी णम्
र्म ज्ञः लं स्व र्ग
स्ता सां त्वं प्र वो गि राम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.