आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥

अन्वयः AI त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, च कृतिना आत्मना आत्मनि एव प्रलीयसे।
सञ्जीविनीटीका (मल्लिनाथः) आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । `स्वेमहिम्नि प्रतिष्ठितम्` इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव` प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । `प्रकृत्यादिभ्य उपसंख्यानम्` इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः
Summary AI You know yourself by yourself. You create yourself by yourself. And you, the creator, dissolve yourself into yourself alone at the time of dissolution.
सारांश AI आप स्वयं के द्वारा ही स्वयं को जानते हैं, स्वयं ही अपनी रचना करते हैं और अपनी शक्ति से अंत में स्वयं में ही विलीन हो जाते हैं।
पदच्छेदः AI
आत्मानम्आत्मन् (२.१) yourself
आत्मनाआत्मन् (३.१) by yourself
वेत्सिवेत्सि (√विद् कर्तरि लट् (परस्मै.) म.पु. एक.) you know
सृजसिसृजसि (√सृज् कर्तरि लट् (परस्मै.) म.पु. एक.) you create
आत्मानम्आत्मन् (२.१) yourself
आत्मनाआत्मन् (३.१) by yourself
आत्मनाआत्मन् (३.१) by yourself
कृतिनाकृतिन् (३.१) who is the agent
and
त्वम्युष्मद् (१.१) you
आत्मनिआत्मन् (७.१) in yourself
एवएव alone
प्रलीयसेप्रलीयसे (प्र√ली कर्तरि लट् (आत्मने.) म.पु. एक.) you dissolve
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्मा मा त्म ना वे त्सि
सृ स्या त्मा मा त्म ना
त्म ना कृ ति ना त्व
मा त्म न्ये प्र ली से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.