तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥

अन्वयः AI तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहम् पुरोधाय स्वायंभुवम् धाम ययुः।
सञ्जीविनीटीका (मल्लिनाथः) तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः । `दिवं स्वर्गेऽन्तरिक्षे च` इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । `नहिवृतिवृषि-` इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रूपत्वाभावात् । `सहेः साढः सः` इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः` इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः
Summary AI At that time, the gods, being oppressed by the demon Taraka, placed Indra at their head and went to the abode of the self-born one, Brahma.
सारांश AI उस समय तारकासुर द्वारा प्रताड़ित देवता इन्द्र को आगे करके ब्रह्मा के स्वयंभू नामक धाम में पहुँचे।
पदच्छेदः AI
तस्मिन्तद् (७.१) At that
विप्रकृताःविप्रकृत (वि+प्र√कृ+क्त, १.३) oppressed
कालेकाल (७.१) time
तारकेणतारक (३.१) by Taraka
दिवौकसःदिव्ओकस् (१.३) the gods
तुरासाहम्तुरासाह् (२.१) Indra
पुरोधायपुरोधाय (पुरस्√धा+ल्यप्) placing in front
धामधामन् (२.१) abode
स्वायंभुवम्स्वायंभुव (२.१) of Brahma
ययुःययुः (√या कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) went
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मि न्वि प्र कृ ताः का ले
ता के दि वौ सः
तु रा सा हं पु रो धा
धा स्वा यं भु वं युः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.