यः पूरयन्कीचकरन्ध्रभागा-
न्दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किंनराणां
तानप्रदायित्वमिवोपगन्तुम् ॥

अन्वयः AI यः दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन्, उद्गास्यताम् किंनराणाम् तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।
सञ्जीविनीटीका (मल्लिनाथः) य इति ॥ यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्‌पन्नेन । `आतश्चोपसर्गे` (अष्टाध्यायी ३.१.१३६ ) इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः` इत्यमरः (अमरकोशः २.४.१६१ ) । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् । वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- `षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ।` इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः `तानस्त्वंशस्वरो मतः`इत्यभिनवगुत्पः । `गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्` इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता । मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे हिमाद्रावित्यलं बहुना
Summary AI The Himalaya, filling the hollows of bamboos with wind rising from its cave mouths, seems to wish to provide the keynote (drone) for the Kinnaras who are about to sing.
सारांश AI गुफाओं के मुख से निकलने वाली वायु जब बांसों के छिद्रों को भरती है, तो ऐसा लगता है मानो हिमालय गाते हुए किन्नरों को संगीत की तान प्रदान कर रहा हो।
पदच्छेदः AI
यःयद् (१.१) who
पूरयन्पूरयत् (√पॄ+णिच्+शतृ, १.१) filling
कीचकरन्ध्रभागान्कीचकरन्ध्रभाग (२.३) the hollows of the bamboos
दरीमुखोत्थेनदरीमुखउत्थ (उद्√स्था, ३.१) rising from the mouths of caves
समीरणेनसमीरण (३.१) by the wind
उद्गास्यताम्उद्गास्यत् (उद्√गै+स्य+शतृ, ६.३) of those who are about to sing
इच्छतिइच्छति (√इष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) wishes
किंनराणाम्किंनर (६.३) of the Kinnaras
तानप्रदायित्वम्तानप्रदायित्व (२.१) the state of providing the keynote
इवइव as if
उपगन्तुम्उपगन्तुम् (उप√गम्+तुमुन्) to attain
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
यः पू न्की न्ध्र भा गा
न्द री मु खो त्थे मी णे
द्गा स्य ता मि च्छ ति किं रा णां
ता प्र दा यि त्व मि वो न्तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.