Loading data... On slow networks this could take a few minutes.
100%

अनर्घ्यमर्घ्येण तमद्रिनाथः
स्वर्गौकसामर्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां
समादिदेश प्रयतां तनूजाम् ॥

अन्वयः AI अद्रिनाथः अनर्घ्यम् स्वर्गौकसाम् अर्चितम् तम् अर्घ्येण अर्चयित्वा, अस्य आराधनाय सखीसमेताम् प्रयताम् तनूजाम् समादिदेश।
सञ्जीविनीटीका (मल्लिनाथः) अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः । `मूल्ये पूजाविधावर्घः` इत्यमरः (अमरकोशः ३.३.३३ ) । `दण्डादिभ्यो यः` इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । `मतिबुद्धिपूजार्थेभ्यश्च` (अष्टाध्यायी ३.२.१८८ ) इति वर्तमाने क्तः । `क्तस्य च वर्तमाने ` इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । ` पदार्घ्याभ्यां च ` इति यत् प्रत्ययः । षट् तु त्रिष्वर्घ्यमघर्थे पाद्यं पादाय वारिणि` इत्यमरः (अमरकोशः ३.३.३३ ) । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास
Summary AI The lord of mountains, Himalaya, after worshipping the invaluable Lord Shiva—who is himself worshipped by the gods—with respectful offerings, appointed his pious daughter, accompanied by her friends, to serve him.
सारांश AI हिमालय ने पूजनीय अतिथि शिव का विधिवत सत्कार किया और अपनी पुत्री पार्वती को सखियों सहित उनकी परिचर्या हेतु नियुक्त किया।
पदच्छेदः AI
अनर्घ्यम्अनर्घ्य (२.१) the invaluable one
अर्घ्येणअर्घ्य (३.१) with respectful offerings
तम्तद् (२.१) him
अद्रिनाथःअद्रिनाथ (१.१) the lord of mountains (Himalaya)
स्वर्गौकसाम्स्वर्गओकस् (६.३) by the dwellers of heaven
अर्चितम्अर्चित (√अर्च्+क्त, २.१) worshipped
अर्चयित्वाअर्चयित्वा (√अर्च्+णिच्+क्त्वा) having worshipped
आराधनायआराधना (आ√राध्+युच्, ४.१) for the service
अस्यइदम् (६.१) of him
सखीसमेताम्सखीसमेत (२.१) accompanied by her friends
समादिदेशसमादिदेश (सम्+आ√दिश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) appointed
प्रयताम्प्रयत (प्र√यम्+क्त, २.१) pious
तनूजाम्तनूजा (२.१) his daughter
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
र्घ्य र्घ्ये द्रि ना थः
स्व र्गौ सा र्चि र्च यि त्वा
रा ना या स्य खी मे तां
मा दि दे प्र तां नू जाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.