गणा नमेरुप्रसवावतंसा
भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः
शैलेयनद्धेषु शिलातलेषु ॥

अन्वयः AI नमेरुप्रसवावतंसाः, स्पर्शवतीः भूर्जत्वचः दधानाः, मनःशिलाविच्छुरिताः गणाः शैलेयनद्धेषु शिलातलेषु निषेदुः।
सञ्जीविनीटीका (मल्लिनाथः) गणा इति ॥ गणाः प्रमथगणाः । `गणाः प्रमथसंख्यौघाः` इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । `नमेरुः सुरपुंनागः` इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः `स्त्रीभ्यो ढक्` (अष्टाध्यायी ४.१.१२० ) इति भवार्थे ढक् । `शिलाजतु च शैलेयम्` इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः
Summary AI Shiva's attendants (Ganas), wearing earrings of Nameru flowers and soft garments of birch-bark, and smeared with red arsenic, sat down on rock slabs that were covered with lichen.
सारांश AI शिव के गणों ने, जो भोजपत्र धारण किए हुए और नमेरु पुष्पों से सजे थे, मनःशिला से युक्त शिलातलों पर विश्राम किया।
पदच्छेदः AI
गणाःगण (१.३) The Ganas
नमेरुप्रसवावतंसाःनमेरुप्रसवअवतंस (१.३) wearing earrings of Nameru flowers
भूर्जत्वचःभूर्जत्वच् (२.३) garments of birch-bark
स्पर्शवतीःस्पर्शवत् (२.३) soft to touch
दधानाःदधान (√धा+शानच्, १.३) wearing
मनःशिलाविच्छुरिताःमनःशिलाविच्छुरित (१.३) smeared with red arsenic
निषेदुःनिषेदुः (नि√सद् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) sat down
शैलेयनद्धेषुशैलेयनद्ध (√नह्+क्त, ७.३) covered with lichen
शिलातलेषुशिलातल (७.३) on slabs of rock
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
णा मे रु प्र वा तं सा
भू र्ज त्व चः स्प र्श ती र्द धा नाः
नः शि ला वि च्छु रि ता नि षे दुः
शै ले द्धे षु शि ला ले षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.