Loading data... On slow networks this could take a few minutes.
100%

यदैव पूर्वे जनने शरीरं
सा दक्षरोषात्सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः
पतिः पशूनामपरिग्रहोऽभूत् ॥

अन्वयः AI यदा एव सुदती सा पूर्वे जनने दक्षरोषात् शरीरम् ससर्ज, तदाप्रभृति एव पशूनाम् पतिः विमुक्तसङ्गः अपरिग्रहः अभूत्।
सञ्जीविनीटीका (मल्लिनाथः) यदेति । शोभना दन्ता यस्याः सा सुदती । `वयसि दन्तस्य दतृ` (अष्टाध्यायी ५.४.१४१ ) इति दत्रादेशः । `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । `पूर्वादिभ्यो नवभ्यो वा` (अष्टाध्यायी ७.१.१६ ) इति स्मिन्नादेशविकल्पः । `पूर्वज्वलने` इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्त्र्यंतरं न परिजग्राहेत्यर्थः `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः
Summary AI Ever since she, Sati of the beautiful teeth, had abandoned her body in a previous birth due to her anger at Daksha, the Lord of all beings (Shiva) had become free from all attachments and worldly ties.
सारांश AI जब से सती ने दक्ष के अपमान के कारण शरीर त्यागा था, तभी से महादेव विरक्त और संगरहित होकर रहने लगे थे।
पदच्छेदः AI
यदायदा When
एवएव indeed
पूर्वेपूर्व (७.१) previous
जननेजनन (७.१) in birth
शरीरम्शरीर (२.१) body
सातद् (१.१) she
दक्षरोषात्दक्षरोष (५.१) out of anger at Daksha
सुदतीसुदत् (१.१) the one with beautiful teeth (Sati)
ससर्जससर्ज (√सृज् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) abandoned
तदाप्रभृतितदाप्रभृति from that time
एवएव onwards
विमुक्तसङ्गःविमुक्त (वि√मुच्+क्त)सङ्ग (१.१) free from attachment
पतिःपति (१.१) the lord
पशूनाम्पशु (६.३) of beings
अपरिग्रहःअपरिग्रह (१.१) free from worldly ties
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) became
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
दै पू र्वे ने री रं
सा क्ष रो षा त्सु ती र्ज
दा प्र भृ त्ये वि मु क्त ङ्गः
तिः शू ना रि ग्र हो ऽभूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.