Loading data... On slow networks this could take a few minutes.
100%

गुरुः प्रगल्भेऽपि वयस्यतोऽस्या-
स्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूत-
मर्हन्ति तेजांस्यपराणि हव्यम् ॥

अन्वयः AI अस्याः वयसि प्रगल्भे अपि, गुरुः अतः निवृत्तान्यवराभिलाषः तस्थौ। हि कृशानोः ऋते अपराणि तेजांसि मन्त्रपूतम् हव्यम् न अर्हन्ति।
सञ्जीविनीटीका (मल्लिनाथः) गुरुरिति । गुरुः पिता । `गुरू गीःपतिपित्राद्यौ` इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । `वरौ ना रूपजामात्रोः` इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना `अन्यारादितरे--` इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः
Summary AI Although Parvati had reached a marriageable age, her father Himalaya, because of Narada's prophecy, refrained from seeking any other suitor for her. Indeed, other than the sacrificial fire (Krishanu), no other fires are worthy of an offering sanctified by mantras.
सारांश AI हिमालय ने पार्वती के विवाह योग्य होने पर भी अन्य किसी वर की खोज नहीं की, क्योंकि अग्नि के अतिरिक्त अन्य कोई तेज मंत्रपूत हविष्य के योग्य नहीं होता।
पदच्छेदः AI
गुरुःगुरु (१.१) The father (Himalaya)
प्रगल्भेप्रगल्भ (७.१) mature
अपिअपि even though
वयसिवयस् (७.१) in age
अतःअतः therefore
अस्याःइदम् (६.१) her
तस्थौतस्थौ (√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) remained
निवृत्तान्यवराभिलाषःनिवृत्त (नि√वृत्+क्त)अन्यवरअभिलाष (१.१) he whose desire for other suitors was withdrawn
ऋतेऋते except for
कृशानोःकृशानु (५.१) fire
not
हिहि for
मन्त्रपूतम्मन्त्रपूत (√पू+क्त, २.१) sanctified by mantras
अर्हन्तिअर्हन्ति (√अर्ह् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are worthy of
तेजांसितेजस् (१.३) splendors (fires)
अपराणिअपर (१.३) other
हव्यम्हव्य (२.१) sacrificial offering
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
गु रुः प्र ल्भे ऽपि स्य तो ऽस्या
स्त स्थौ नि वृ त्ता न्य रा भि ला षः
ते कृ शा नो र्न हि न्त्र पू
र्ह न्ति ते जां स्य रा णि व्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.