तां नारदः कामचरः कदा
चित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं
प्रेम्णा शरीरार्धहरां हरस्य ॥

अन्वयः AI कामचरः नारदः कदा चित् पितुः समीपे ताम् कन्याम् प्रेक्ष्य, ताम् प्रेम्णा हरस्य शरीरार्धहराम् एकवधूम् भवित्रीम् किल समादिदेश।
सञ्जीविनीटीका (मल्लिनाथः) तामिति । कामेनेच्छया चरतीति कामचरो नारदः । कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल प्रेम्णा न त्वन्यथा हरस्य शिवस्यार्धं हरतीत्यर्धहरा । `हरतेरनुद्यमनेऽच्` (अष्टाध्यायी ३.२.९ ) हत्यच्प्रत्ययः । शरीरास्यार्धहराम् शरीरार्धहराम् । कुलधुरन्धरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वादशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । `पूर्वकाल--` इत्यादिना समासः । भवित्रीं भाविनीं समादिदेश । हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्यादिष्टवानित्यर्थः
Summary AI Once, the sage Narada, who could travel at will, saw the maiden Parvati near her father. He prophesied that she was destined to be the one and only wife of Shiva, who, out of love, would share half of his body with her.
सारांश AI नारद ने पार्वती को उनके पिता के पास देखकर यह भविष्यवाणी की कि वे भविष्य में शिव की अर्धांगिनी बनकर उनके शरीर का आधा भाग प्राप्त करेंगी।
पदच्छेदः AI
ताम्तद् (२.१) her
नारदःनारद (१.१) Narada
कामचरःकामचर (१.१) who travels at will
कदाकदा once
चित्चित् upon a time
कन्याम्कन्या (२.१) the maiden
किलकिल indeed
प्रेक्ष्यप्रेक्ष्य (प्र√ईक्ष्+ल्यप्) having seen
पितुःपितृ (६.१) of her father
समीपेसमीप (७.१) near
समादिदेशसमादिदेश (सम्+आ√दिश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) prophesied
एकवधूम्एकवधू (२.१) the one and only wife
भवित्रीम्भवित्री (√भू+तृच्, २.१) destined to be
प्रेम्णाप्रेमन् (३.१) with love
शरीरार्धहराम्शरीरअर्धहर (२.१) who would take half the body
हरस्यहर (६.१) of Hara (Shiva)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
तां ना दः का रः दा चि
त्क न्यां कि प्रे क्ष्य पि तुः मी पे
मा दि दे शै धूं वि त्रीं
प्रे म्णा री रा र्ध रां स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.