Loading data... On slow networks this could take a few minutes.
100%

आमेखलं संचरतां घनानां
च्छायामधःसानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते
शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥

अन्वयः AI सिद्धाः आमेखलम् संचरताम् घनानाम् अधःसानुगताम् छायाम् निषेव्य, वृष्टिभिः उद्वेजिताः सन्तः यस्य आतपवन्ति शृङ्गाणि आश्रयन्ते ।
सञ्जीविनीटीका (मल्लिनाथः) आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । `पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः` इत्यमरः (अमरकोशः १.१.११ ) । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । `मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः` इति विश्वः । `आङ्मर्यादाभिविध्योः` इत्यव्ययीभावः । संचरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् । `द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । छायामनातपम् । `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्यमरः (अमरकोशः ३.३.१६६ ) । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । `उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि` इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः
Summary AI The Siddhas, after enjoying the shade of clouds moving along the slopes, take refuge on the sunlit peaks of the Himalaya when they are troubled by rain.
सारांश AI मध्य भाग तक विचरण करने वाले बादलों की छाया का सेवन कर, वर्षा से घबराए हुए सिद्ध लोग हिमालय के उन ऊंचे शिखरों पर चले जाते हैं जहाँ धूप खिली होती है।
पदच्छेदः AI
आमेखलम्आमेखलम् up to the slopes
संचरताम्संचरत् (सम्√चर्+शतृ, ६.३) of the moving
घनानाम्घन (६.३) clouds
छायाम्छाया (२.१) the shade
अधःसानुगताम्अधस्सानुगत (√गम्+क्त, २.१) which has gone to the lower peaks
निषेव्यनिषेव्य (नि√सेव्+ल्यप्) having enjoyed
उद्वेजिताःउद्वेजित (उद्√विज्+णिच्+क्त, १.३) being troubled
वृष्टिभिःवृष्टि (३.३) by rains
आश्रयन्तेआश्रयन्ते (आ√श्रि कर्तरि लट् (आत्मने.) प्र.पु. बहु.) take refuge in
शृङ्गाणिशृङ्ग (२.३) the peaks
यस्ययद् (६.१) of which
आतपवन्तिआतपवत् (२.३) sunlit
सिद्धाःसिद्ध (१.३) the Siddhas
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
मे लं सं तां ना नां
च्छा या धः सा नु तां नि षे व्य
द्वे जि ता वृ ष्टि भि रा श्र न्ते
शृ ङ्गा णि स्या न्ति सि द्धाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.