यश्चाप्सरोविभ्रममण्डनानां
संपादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागा-
मकालसंध्यामिव धातुमत्ताम् ॥

अन्वयः AI यः च शिखरैः, अप्सरःविभ्रममण्डनानाम् संपादयित्रीम्, बलाहकच्छेदविभक्तरागाम्, धातुमत्ताम् अकालसंध्याम् इव बिभर्ति ।
सञ्जीविनीटीका (मल्लिनाथः) यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा `विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये` इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । `कर्तृकर्मणोः कृति` (अष्टाध्यायी २.३.६५ ) इति कर्मणि षष्ठी । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । `समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ` इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा
Summary AI And this Himalaya, with its peaks, bears mineral-rich earth that serves as a source of charming adornments for the Apsaras. This mineral wealth, with its colors separated by fragments of clouds, resembles an untimely twilight.
सारांश AI हिमालय अपने शिखरों पर छितराए हुए बादलों के रंगों से सुसज्जित विभिन्न धातुओं को धारण करता है, जो अप्सराओं के शृंगार के लिए असामयिक संध्या के समान प्रतीत होती हैं।
पदच्छेदः AI
यःयद् (१.१) who
and
अप्सरोविभ्रममण्डनानाम्अप्सरस्विभ्रममण्डन (६.३) of the charming adornments for the Apsaras
संपादयित्रीम्संपादयित्री (सम्√पद्+णिच्+तृच्, २.१) the producer
शिखरैःशिखर (३.३) with its peaks
बिभर्तिबिभर्ति (√भृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) bears
बलाहकच्छेदविभक्तरागाम्बलाहकछेदविभक्त (वि√भज्+क्त)राग (२.१) whose colors are separated by fragments of clouds
अकालसंध्याम्अकालसंध्या (२.१) an untimely twilight
इवइव like
धातुमत्ताम्धातुमत्ता (२.१) the abundance of minerals
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
श्चा प्स रो वि भ्र ण्ड ना नां
सं पा यि त्रीं शि रै र्बि र्ति
ला च्छे वि क्त रा गा
का सं ध्या मि धा तु त्ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.