लज्जा तिरश्चां यदि चेतसि स्या-
दसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्यु-
र्वालप्रियत्वं शिथिलं चमर्यः ॥

अन्वयः AI यदि तिरश्चाम् चेतसि लज्जा स्यात्, तर्हि चमर्यः पर्वतराजपुत्र्याः तम् केशपाशम् प्रसमीक्ष्य असंशयम् वालप्रियत्वम् शिथिलम् कुर्युः।
सञ्जीविनीटीका (मल्लिनाथः) लज्जेति । तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि । संशयाभावोऽसंशयम् । सन्देहो नास्तीत्यर्थः । पर्वतराजपुत्र्याः । `शार्ङ्गरवाद्यञो ङीन्` (अष्टाध्यायी ४.१.७३ ) इति ङीन् । तं प्रसिद्धं केशपाशं केशकलापम् । `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अमरकोशः २.६.९९ ) । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषाः बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् । प्रियबालत्वमित्यर्थः । आहिताग्न्यादिपाठाव्दा परनिपातः । `त्वतलोर्गुणवचनस्य` इति पुंवद्भावः । शिथिलं कुर्युः । निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहेतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलङ्कारः । तदुक्तम्-- `हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्` इति
Summary AI If animals could feel shame, then the female yaks (chamaris), upon seeing the beautiful mass of hair of Parvati, the mountain-king's daughter, would undoubtedly lessen their famous fondness for their own tails.
सारांश AI यदि पशुओं में लज्जा का भाव होता, तो पार्वती के अत्यन्त सुन्दर केशपाश को देखकर चमरी मृग अपनी प्रिय पूँछ के बालों का गर्व निश्चित ही छोड़ देते।
पदच्छेदः AI
लज्जालज्जा (१.१) Shame
तिरश्चाम्तिर्यञ्च् (६.३) of animals
यदियदि if
चेतसिचेतस् (७.१) in the mind
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) were to be
असंशयम्असंशयम् without doubt
पर्वतराजपुत्र्याःपर्वतराजपुत्री (६.१) of the daughter of the mountain king
तम्तद् (२.१) that
केशपाशम्केशपाश (२.१) mass of hair
प्रसमीक्ष्यप्रसमीक्ष्य (प्र+सम्√ईक्ष्+ल्यप्) having seen well
कुर्युःकुर्युः (√कृ कर्तरि विधिलिङ् (परस्मै.) प्र.पु. बहु.) would make
वालप्रियत्वम्वालप्रियत्व (२.१) fondness for their tails
शिथिलम्शिथिल (२.१) loose
चमर्यःचमरी (१.३) female yaks
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ज्जा ति श्चां दि चे सि स्या
सं यं र्व रा पु त्र्याः
तं के पा शं प्र मी क्ष्य कु र्यु
र्वा प्रि त्वं शि थि लं र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.