Loading data... On slow networks this could take a few minutes.
100%

स्वरेण तस्याममृतस्रुतेव
प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा
श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥

अन्वयः AI अमृतस्रुता इव स्वरेण अभिजातवाचि तस्यां प्रजल्पितायां (सत्याम्), अन्यपुष्टा अपि श्रोतुः प्रतिकूलशब्दा (बभूव), ताड्यमाना वितन्त्रीः इव।
सञ्जीविनीटीका (मल्लिनाथः) स्वरेणेति । अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्त्रुतामृतस्त्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्त्तरि क्तः । अन्यैः काकादिभिः पुष्टान्यपुष्टा कोकिलापि । मुख्यया वृत्या जातिवचनत्वभावान्ङीबभावः । ताड्यमाना वाद्यमाना विषमबद्धा तन्त्रीर्वितन्त्रीरिव अवितॄस्तृतन्त्रिभ्यः- ईः ` इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न `हल्ङ्याब्भ्यः-` इति सुलोपः । तदुक्तम्- अवोलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥ एते ङीबन्ता न भवन्तीत्यर्थः । श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः
Summary AI When she of noble speech spoke with a voice that seemed to drip nectar, even the cuckoo (the 'other-nourished' bird) sounded harsh to the listener, like a lute with discordant strings being struck.
सारांश AI पार्वती की अमृतमयी मधुर वाणी के समक्ष कोयल का स्वर भी बेसुरी वीणा के समान कर्कश प्रतीत होने लगता है।
पदच्छेदः AI
स्वरेणस्वर (३.१) with a voice
तस्याम्तद् (७.१) when she
अमृतस्रुतेवअमृतस्रुत् (√स्रु+क्विप्, ३.१)इव as if dripping nectar
प्रजल्पितायाम्प्रजल्पित (प्र√जल्प्+क्त, ७.१) spoke
अभिजातवाचिअभिजातवाच् (७.१) of noble speech
अप्यन्यपुष्टाअपिअन्यपुष्ट (√पुष्+क्त, १.१) even the cuckoo (other-nourished)
प्रतिकूलशब्दाप्रतिकूलशब्द (१.१) sounded harsh
श्रोतुःश्रोतृ (६.१) to the listener
वितन्त्रीरिववितन्त्री (१.१)इव like a discordant
ताड्यमानाताड्यमान (√तड्+णिच्+शानच्, १.१) lute being struck
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्व रे स्या मृ स्रु ते
प्र ल्पि ता या भि जा वा चि
प्य न्य पु ष्टा प्र ति कू ब्दा
श्रो तु र्वि न्त्री रि ता ड्य मा ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.