Loading data... On slow networks this could take a few minutes.
100%

पुष्पं प्रवालोपहितं यदि स्या-
न्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्या-
स्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥

अन्वयः AI यदि पुष्पम् प्रवालोपहितं स्यात्, वा मुक्ताफलं स्फुटविद्रुमस्थं (स्यात्), ततः तस्याः ताम्रौष्ठपर्यस्तरुचः विशदस्य स्मितस्य अनुकुर्यात्।
सञ्जीविनीटीका (मल्लिनाथः) पुष्पमिति ॥ पुष्पं पुणडरीकादिकं प्रवाले बालपल्लव उपहितं निहितं स्याद्यदि । `प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे` इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र `माषाणामश्नीयात्` इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । `सा च संभावना` इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्-- `उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः` इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति
Summary AI If a white flower were placed on a red coral shoot, or a pearl were set on bright red coral, then it might imitate her radiant smile, whose brilliance was cast upon her copper-red lips.
सारांश AI मूँगे पर स्थित पुष्प अथवा लाल विद्रुम में जड़े मोती ही उनके लाल ओष्ठों पर सुशोभित धवल मुस्कान की समता कर सकते हैं।
पदच्छेदः AI
पुष्पंपुष्प (१.१) A flower
प्रवालोपहितंप्रवालउपहित (उप√धा+क्त, १.१) placed on a coral shoot
यदियदि if
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) it were
मुक्ताफलंमुक्ताफल (१.१) a pearl
वावा or
स्फुटविद्रुमस्थम्स्फुटविद्रुमस्थ (√स्था+क, १.१) set on bright coral
ततोऽनुकुर्याद्ततस्–अनुकुर्यात् (अनु√कृ कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) then it might imitate
विशदस्यविशद (६.१) of the radiant
तस्याःतद् (६.१) her
ताम्रौष्ठपर्यस्तरुचःताम्रओष्ठपर्यस्त (परि√अस्+क्त)रुच् (६.१) of that whose brilliance was cast upon her copper-red lips
स्मितस्यस्मित (६.१) of the smile
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पु ष्पं प्र वा लो हि तं दि स्या
न्मु क्ता लं वा स्फु वि द्रु स्थम्
तो ऽनु कु र्या द्वि स्य स्या
स्ता म्रौ ष्ठ र्य स्त रु चः स्मि स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.