Loading data... On slow networks this could take a few minutes.
100%

कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव
साधारणो भूषणभूष्यभावः ॥

अन्वयः AI तस्याः स्तनबन्धुरस्य कण्ठस्य निस्तलस्य मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणः बभूव।
सञ्जीविनीटीका (मल्लिनाथः) कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । `वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्` । `कलापो भूषणे बर्हे तूणीरे संहतावपि` इति चामरः । अन्योन्यशोभाजननाद् भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम्- `परस्परं क्रियाजननमन्योन्यम्`इति
Summary AI Because they mutually enhanced each other's beauty, the relationship between her neck, gracefully curved by her breasts, and the round pearl necklace became interchangeable; it was impossible to tell which was the ornament and which was the adorned.
सारांश AI पार्वती के उन्नत कंठ और उनके मोतियों के हार ने एक-दूसरे की शोभा इतनी बढ़ा दी कि यह भेद करना कठिन हो गया कि कौन आभूषण है और कौन सुशोभित अंग।
पदच्छेदः AI
कण्ठस्यकण्ठ (६.१) of the neck
तस्याःतद् (६.१) her
स्तनबन्धुरस्यस्तनबन्धुर (६.१) curved by her breasts
मुक्ताकलापस्यमुक्ताकलाप (६.१) of the pearl necklace
and
निस्तलस्यनिस्तल (६.१) of the round
अन्योन्यशोभाजननाद्अन्योन्यशोभाजनन (५.१) from mutually enhancing beauty
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) became
साधारणोसाधारण (१.१) interchangeable
भूषणभूष्यभावःभूषणभूष्यभाव (१.१) the state of being ornament and adorned
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
ण्ठ स्य स्याः स्त न्धु स्य
मु क्ता ला स्य नि स्त स्य
न्यो न्य शो भा ना द्ब भू
सा धा णो भू भू ष्य भा वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.