Loading data... On slow networks this could take a few minutes.
100%

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः
स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्ये यथा श्याममुखस्य तस्य
मृणालसूत्रान्तरमप्यलभ्यम् ॥

अन्वयः AI उत्पलाक्ष्याः पाण्डु स्तनद्वयम् अन्योन्यम् उत्पीडयत् तथा प्रवृद्धम्, यथा तस्य श्याममुखस्य मध्ये मृणालसूत्रान्तरम् अपि अलभ्यम् (आसीत्)।
सञ्जीविनीटीका (मल्लिनाथः) अन्योन्येति । अन्योन्यं परस्परम् । `कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये` इति द्विरुक्तिः । `समासवच्च बहुलम्` इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । `अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये` इत्यमरः (अमरकोशः ३.३.१९५ ) । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति
Summary AI The pale pair of breasts of the lotus-eyed one grew so much, pressing against each other, that between their dark nipples, there was not even space for a lotus-fibre thread.
सारांश AI उनके अत्यंत सघन और बढ़ते हुए श्वेत स्तनों ने परस्पर एक-दूसरे को इतना दबा रखा था कि उनके श्याम अग्रभागों के बीच कमल के तंतु के समान सूक्ष्म स्थान भी शेष नहीं था।
पदच्छेदः AI
अन्योन्यमुत्पीडयत्अन्योन्य (२.१)–उत्पीडयत् (उद्√पीड्+शतृ, १.१) pressing against each other
उत्पलाक्ष्याःउत्पलअक्षि (६.१) of the lotus-eyed one
स्तनद्वयंस्तनद्वय (१.१) the pair of breasts
पाण्डुपाण्डु (१.१) pale
तथातथा so
प्रवृद्धम्प्रवृद्ध (प्र√वृध्+क्त, १.१) grew
मध्येमध्य (७.१) between
यथायथा that
श्याममुखस्यश्याममुख (६.१) of the dark-nippled
तस्यतद् (६.१) of it
मृणालसूत्रान्तरमप्यलभ्यम्मृणालसूत्रअन्तर (१.१)अपिलभ्य (√लभ्+यत्, १.१) even the space for a lotus-fibre thread was unobtainable
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्यो न्य मु त्पी दु त्प ला क्ष्याः
स्त द्व यं पा ण्डु था प्र वृ द्धम्
ध्ये था श्या मु स्य स्य
मृ णा सू त्रा न्त प्य भ्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.