अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ॥

अन्वयः AI अनन्तरत्नप्रभवस्य यस्य हिमम् सौभाग्यविलोपि न जातम् । हि एकः दोषः गुणसंनिपाते इन्दोः किरणेषु अङ्कः इव निमज्जति ।
सञ्जीविनीटीका (मल्लिनाथः) अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । `हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ` इत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-`ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ ` इति दण्डी
Summary AI For this Himalaya, the source of countless jewels, its snow does not diminish its beauty. Indeed, a single flaw drowns in a multitude of virtues, just as the spot on the moon is lost in its rays.
सारांश AI अनंत रत्नों की उत्पत्ति वाले हिमालय की शोभा बर्फ से नष्ट नहीं हुई, क्योंकि गुणों के समूह में एक दोष उसी प्रकार विलीन हो जाता है जैसे चंद्रमा की किरणों में उसका कलंक।
पदच्छेदः AI
अनन्तरत्नप्रभवस्यअनन्तरत्नप्रभव (६.१) of the source of countless jewels
यस्ययद् (६.१) whose
हिमम्हिम (१.१) snow
not
सौभाग्यविलोपिसौभाग्यविलोपिन् (वि√लुप्, १.१) a destroyer of beauty
जातम्जात (√जन्+क्त, १.१) became
एकःएक (१.१) one
हिहि for
दोषःदोष (१.१) flaw
गुणसंनिपातेगुणसंनिपात (७.१) in a collection of virtues
निमज्जतिनिमज्जति (नि√मस्ज् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sinks
इन्दोःइन्दु (६.१) of the moon
किरणेषुकिरण (७.३) in the rays
इवइव like
अङ्कःअङ्क (१.१) the spot
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्त त्न प्र स्य स्य
हि मं सौ भा ग्य वि लो पि जा तम्
को हि दो षो गु सं नि पा ते
नि ज्ज ती न्दोः कि णे ष्वि वा ङ्कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.