Loading data... On slow networks this could take a few minutes.
100%

एतावता नन्वनुमेयशोभं
काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद्गिरिशेन पश्चा-
दनन्यनारीकमनीयमङ्कम् ॥

अन्वयः AI ननु अनिन्दितायाः काञ्चीगुणस्थानम् एतावता अनुमेयशोभम् (अस्ति), यत् पश्चात् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्।
सञ्जीविनीटीका (मल्लिनाथः) एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ॥ `प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु` इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । `त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः` इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् । तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । `गिरौ डश्छन्दसि` इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्तात्कर्मणि क्तः । `रुहः पोऽन्यतरस्याम्` (अष्टाध्यायी ७.३.४३ ) इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण
Summary AI Indeed, the beauty of the flawless one's waist, the place for her girdle, can be inferred from this fact: that later, it was placed by Girisha (Shiva) on his lap, a place coveted by no other woman.
सारांश AI उनकी कमर और करधनी के स्थान की सुंदरता का अनुमान इसी से लगाया जा सकता है कि बाद में वह महादेव की उस गोद का आधार बनी, जो किसी अन्य नारी के लिए सुलभ नहीं थी।
पदच्छेदः AI
एतावताएतावत् (३.१) By this much
नन्वनुमेयशोभंननुअनुमेय (√मा+यत्)शोभ (१.१) indeed, whose beauty is to be inferred
काञ्चीगुणस्थानम्काञ्चीगुणस्थान (१.१) the place for the girdle (the waist)
अनिन्दितायाःनिन्दित (√निन्द्+क्त, ६.१) of the flawless one
आरोपितंआरोपित (आ√रुह्+णिच्+क्त, १.१) was placed
यद्यद् (१.१) which
गिरिशेनगिरिश (३.१) by Girisha (Shiva)
पश्चाद्पश्चात् later
अनन्यनारीकमनीयम्अनन्यनारीकमनीय (२.१) coveted by no other woman
अङ्कम्अङ्क (२.१) on his lap
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ता ता न्व नु मे शो भं
का ञ्ची गु स्था नि न्दि ता याः
रो पि तं द्गि रि शे श्चा
न्य ना री नी ङ्कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.