Loading data... On slow networks this could take a few minutes.
100%

वृत्तानुपूर्वे च न चातिदीर्घे
जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातु-
र्लावण्य उत्पाद्य इवास यत्नः ॥

अन्वयः AI तदीये वृत्तानुपूर्वे न च अतिदीर्घे शुभे जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ लावण्ये उत्पाद्यः यत्नः आस इव।
सञ्जीविनीटीका (मल्लिनाथः) वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे । गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च । महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । `जङ्घा तु प्रसृता` इत्यमरः (अमरकोशः २.६.७३ ) । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (२५) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे `तिङन्तप्रतिरुपकमव्ययम्` इत्याह शाकटायनः । वल्लभस्तु- `न तिङन्तप्रतिरुपकमव्ययम्` `अस्तेर्भूः` (अष्टाध्यायी २.४.५२ ) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः` इत्याह । वामनस्तु- `अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्` इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे । प्रवृत्त इत्यर्थः
Summary AI After the Creator had fashioned her two beautiful shanks—rounded, well-proportioned, and not too long—it seemed as if all his effort for producing loveliness had been exhausted, leaving none for the creation of her remaining limbs.
सारांश AI उनकी सुडौल और सुंदर पिंडलियों को बनाने में विधाता ने मानो अपनी सारी लावण्य शक्ति लगा दी, जिससे ऐसा लगा कि शेष अंगों के लिए सौंदर्य जुटाने में उन्हें विशेष श्रम करना पड़ा।
पदच्छेदः AI
वृत्तानुपूर्वेवृत्तआनुपूर्व (२.२) rounded and well-proportioned
and
not
चातिदीर्घेअतिदीर्घ (२.२) and not too long
जङ्घेजङ्घा (२.२) two shanks
शुभेशुभ (२.२) beautiful
सृष्टवतःसृष्टवत् (√सृज्+क्तवतु, ६.१) of the one who created
तदीयेतदीय (२.२) her
शेषाङ्गनिर्माणविधौशेषअङ्गनिर्माणविधि (७.१) in the process of creating the remaining limbs
विधातुःविधातृ (६.१) of the Creator
लावण्यलावण्य (७.१) in loveliness
उत्पाद्यउत्पाद्य (उद्√पद्+णिच्+ण्यत्, १.१) to be produced
इवासइवआस (√अस् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) it was as if
यत्नःयत्न (१.१) effort
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
वृ त्ता नु पू र्वे चा ति दी र्घे
ङ्घे शु भे सृ ष्ट स्त दी ये
शे षा ङ्ग नि र्मा वि धौ वि धा तु
र्ला ण्य त्पा द्य वा त्नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.