अभ्युन्नताङ्गुष्ठनखप्रभाभि-
र्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुस्तच्चरणौ पृथिव्यां
स्थलारविन्दश्रियमव्यवस्थाम् ॥

अन्वयः AI अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्थाम् स्थलारविन्दश्रियम् आजह्रतुः।
सञ्जीविनीटीका (मल्लिनाथः) अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । `रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु` इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्निस्सारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः प्रत्युत गुण एव । यथाह दण्डी- `निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥` इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः - `यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ निहतौ सा स्यान्नृपतिसंमता ॥` इति ।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- `असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥` इति
Summary AI Her two feet, as if emitting a red glow from the radiance of their upturned toenails whenever they were placed down, brought to the earth the transient beauty of land-lotuses.
सारांश AI चलते समय उनके चरणों के नखों की लालिमा पृथ्वी पर ऐसी बिखरती थी, मानो वे स्थल-कमलों की अस्थिर शोभा को अपने चरणों में धारण कर रही हों।
पदच्छेदः AI
अभ्युन्नताङ्गुष्ठनखप्रभाभिःअभिउद्उन्नत (√नम्+क्त)अङ्गुष्ठनखप्रभा (३.३) by the radiance of the nails of her upturned big toes
निक्षेपणात्निक्षेपण (नि√क्षिप्+ल्युट्, ५.१) from being placed down
रागमिवोद्गिरन्तौराग (२.१)इव–उद्गिरत् (उद्√गॄ+शतृ, १.२) as if emitting a red glow
आजह्रतुःआजह्रतुः (आ√हृ कर्तरि लिट् (परस्मै.) प्र.पु. द्वि.) brought
तच्चरणौतद्चरण (१.२) her two feet
पृथिव्यांपृथिवी (७.१) to the earth
स्थलारविन्दश्रियम्स्थलअरविन्दश्री (२.१) the beauty of land-lotuses
अव्यवस्थाम्व्यवस्थित (वि+अव√स्था+क्त, २.१) transient
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
भ्यु न्न ता ङ्गु ष्ठ प्र भा भि
र्नि क्षे णा द्रा मि वो द्गि न्तौ
ह्र तु स्त च्च णौ पृ थि व्यां
स्थ ला वि न्द श्रि व्य स्थाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.