असंभृतं मण्डनमङ्गयष्टे-
रनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं
बाल्यात्परं साथ वयः प्रपेदे ॥

अन्वयः AI अथ सा बाल्यात् परं वयः प्रपेदे, यत् अङ्गयष्टेः असंभृतं मण्डनम्, मदस्य अनासवाख्यं करणम्, कामस्य पुष्पव्यतिरिक्तम् अस्त्रम् (आसीत्)।
सञ्जीविनीटीका (मल्लिनाथः) असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- `कारणाभावे कार्योत्पतिर्विभावना` इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् `स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।`
Summary AI Then, she entered the age beyond childhood—youth—which was an unprocured ornament for her slender body, an instrument of intoxication not called wine, and a weapon for the God of Love other than his flowers.
सारांश AI बचपन के बाद उन्होंने उस नवयौवन में प्रवेश किया, जो शरीर का बिना गहनों वाला आभूषण, बिना मदिरा का नशा और कामदेव का बिना पुष्प वाला अचूक बाण है।
पदच्छेदः AI
असंभृतं–संभृत (सम्√भृ+क्त, १.१) unprocured
मण्डनम्मण्डन (१.१) ornament
अङ्गयष्टेःअङ्गयष्टि (६.१) of her slender body
अनासवाख्यंआसव–आख्य (१.१) not called wine
करणंकरण (१.१) instrument
मदस्यमद (६.१) of intoxication
कामस्यकाम (६.१) of the God of Love
पुष्पव्यतिरिक्तम्पुष्पव्यतिरिक्त (वि+अति√रिच्+क्त, १.१) other than flowers
अस्त्रंअस्त्र (१.१) weapon
बाल्यात्बाल्य (५.१) from childhood
परंपर (२.१) beyond
साथतद् (१.१)अथ she then
वयःवयस् (२.१) the age (of youth)
प्रपेदेप्रपेदे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) attained
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सं भृ तं ण्ड ङ्ग ष्टे
ना वा ख्यं णं स्य
का स्य पु ष्प व्य ति रि क्त स्त्रं
बा ल्या त्प रं सा यः प्र पे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.