Loading data... On slow networks this could take a few minutes.
100%

यं सर्वशैलाः परिकल्प्य वत्सं
मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च
पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥

अन्वयः AI मेरौ स्थिते दोहदक्षे दोग्धरि (सति), सर्वशैलाः यम् वत्सम् परिकल्प्य, पृथु-उपदिष्टाम् धरित्रीम् भास्वन्ति रत्नानि महा-ओषधीः च दुदुहुः ।
सञ्जीविनीटीका (मल्लिनाथः) यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन` (अष्टाध्यायी २.१.४९ ) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । `यस्य च भावेन भावलक्षणम्` (अष्टाध्यायी २.३.३७ ) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।`गौर्भूत्वा तु वसुन्धरा` इति विष्णुपुराणात् । `अकथितं च` (अष्टाध्यायी १.४.५१ ) इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । `नपुंसकमनपुंसकेन-` इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । `रत्नं श्रेष्ठे मणावपि` इति विश्वः । `जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते` इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता इति शेषः । `ताः क्षीरपरिणामिनीः` इति विष्णुपुराणात् । दुदुहुः । `दुहियाच् -` इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां `पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः` इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्त्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - `प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ` न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति
Summary AI With Meru as the skilled milker, all the mountains, considering Himalaya as the calf, milked the Earth, as instructed by Prithu, for shining jewels and great medicinal herbs.
सारांश AI राजा पृथु के निर्देश पर सभी पर्वतों ने जिस हिमालय को बछड़ा और मेरु को दोहन-कुशल ग्वाला बनाकर पृथ्वी रूपी गाय से चमकीले रत्नों और दिव्य औषधियों का दोहन किया था।
पदच्छेदः AI
यम्यद् (२.१) whom
सर्वशैलाःसर्वशैल (१.३) all the mountains
परिकल्प्यपरिकल्प्य (परि√कॢप्+ल्यप्) having imagined
वत्सम्वत्स (२.१) as a calf
मेरौमेरु (७.१) Meru
स्थितेस्थित (√स्था+क्त, ७.१) being
दोग्धरिदोग्धृ (७.१) the milker
दोहदक्षेदोहदक्ष (७.१) skilled in milking
भास्वन्तिभास्वत् (२.३) shining
रत्नानिरत्न (२.३) jewels
महौषधीःमहत्ओषधि (२.३) and great herbs
and
पृथूपदिष्टाम्पृथुउपदिष्ट (उप√दिश्+क्त, २.१) instructed by Prithu
दुदुहुःदुदुहुः (√दुह् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) milked
धरित्रीम्धरित्री (२.१) the Earth
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
यं र्व शै लाः रि ल्प्य त्सं
मे रौ स्थि ते दो ग्ध रि दो क्षे
भा स्व न्ति त्ना नि हौ धी श्च
पृ थू दि ष्टां दु दु हु र्ध रि त्रीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.