मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥

अन्वयः AI बाल्ये सखीनां मध्यगता सा मन्दाकिनीसैकतवेदिकाभिः कन्दुकैः कृत्रिमपुत्रकैः च मुहुः रेमे, क्रीडारसं निर्विशती इव।
सञ्जीविनीटीका (मल्लिनाथः) मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः । रुचिरिति यावत् तं क्रीडारसम् । `रसो गन्धे रसः स्वादे` इति विश्वः । निर्विशतीव भुञ्जानेव । `निर्वेशो भृतिभोगयोः` इति विश्वः । `आच्छीनद्योर्नुम्` (अष्टाध्यायी ७.१.८० ) इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । `ङ्वितः क्त्रिः` इति क्त्रिप्रत्ययः । `क्त्रेर्मम्नित्यम्` इति ममागमश्च । पुत्रकैः पाञ्चालिकाभिः । `पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता` इत्यमरः (अमरकोशः २.१०.२९ ) । `संज्ञायां कन्` (अष्टाध्यायी ४.३.१४७ ) इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे
Summary AI In her childhood, surrounded by her friends, she often played with balls and dolls on the sandbanks of the Mandākinī river, which served as altars, as if fully savoring the essence of play.
सारांश AI बचपन में पार्वती अपनी सखियों के साथ मंदाकिनी की रेत से वेदी बनाकर, गेंद और गुड़ियों के साथ खेलते हुए क्रीड़ा के सुख का अनुभव करने लगीं।
पदच्छेदः AI
मन्दाकिनीसैकतवेदिकाभिःमन्दाकिनीसैकतवेदिका (३.३) on the sandbank-altars of the Mandākini
सातद् (१.१) she
कन्दुकैःकन्दुक (३.३) with balls
कृत्रिमपुत्रकैश्चकृत्रिमपुत्रक (३.३) and with dolls
रेमेरेमे (√रम् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) played
मुहुःमुहुर् often
मध्यगतामध्यगत (√गम्+क्त, १.१) being in the midst
सखीनांसखी (६.३) of her friends
क्रीडारसंक्रीडारस (२.१) the essence of play
निर्विशतीवनिर्विशत् (निर्√विश्+शतृ, १.१)इव as if enjoying
बाल्येबाल्य (७.१) in childhood
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
न्दा कि नी सै वे दि का भिः
सा न्दु कैः कृ त्रि पु त्र कै श्च
रे मे मु हु र्म ध्य ता खी नां
क्री डा सं नि र्वि ती बा ल्ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.