असूत सा नागवधूपभोग्यं
मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-
ववेदनाज्ञं कुलिशक्षतानाम् ॥

अन्वयः AI सा नागवधूपभोग्यम्, अम्भःनिधिबद्धसख्यम्, पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवेदनाज्ञम् मैनाकम् असूत ।
सञ्जीविनीटीका (मल्लिनाथः) असूतेति । सा मेना नागवधूपभोग्यम् । नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । `सत्सूद्विषे-` त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । `इगुपधज्ञा-` इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । `आतोऽनुपसर्गे कः` (अष्टाध्यायी ३.२.३ ) इति कप्रत्ययः । `उपपदमतिङ्` (अष्टाध्यायी २.२.१९ ) इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । `पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ।` इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः
Summary AI She (Mena) gave birth to Mainaka, who was fit to be enjoyed by the Naga maidens and had formed a friendship with the ocean. Even when Indra, the enemy of Vritra and the cutter of mountains' wings, was enraged, Mainaka remained unaware of the pain from the wounds of the thunderbolt.
सारांश AI उन्होंने मैनाक नामक पुत्र को जन्म दिया जो नाग-कन्याओं के उपभोग योग्य और समुद्र का मित्र था; इन्द्र द्वारा पंख काटे जाने पर भी जिसे वज्र की पीड़ा का अनुभव नहीं हुआ।
पदच्छेदः AI
असूतअसूत (√सू कर्तरि लङ् (आत्मने.) प्र.पु. एक.) she gave birth to
सातद् (१.१) she
नागवधूपभोग्यम्नागवधूउपभोग्य (उप√भुज्+ण्यत्, २.१) fit to be enjoyed by the Naga maidens
मैनाकम्मैनाक (२.१) Mainaka
अम्भोनिधिबद्धसख्यम्अम्भस्निधिबद्ध (√बन्ध्+क्त)सख्य (२.१) who had formed a friendship with the ocean
क्रुद्धेक्रुद्ध (√क्रुध्+क्त, ७.१) being enraged
अपिअपि even when
पक्षच्छिदिपक्षछिद् (७.१) in the cutter of wings
वृत्रशत्रौवृत्रशत्रु (७.१) in the enemy of Vritra (Indra)
अवेदनाज्ञम्वेदनाज्ञ (२.१) unaware of the pain
कुलिशक्षतानाम्कुलिशक्षत (६.३) of the wounds from the thunderbolt
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सू सा ना धू भो ग्यं
मै ना म्भो नि धि द्ध ख्यम्
क्रु द्धे ऽपि क्ष च्छि दि वृ त्र त्रा
वे ना ज्ञं कु लि क्ष ता नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.