Loading data... On slow networks this could take a few minutes.
100%

अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥

अन्वयः AI उत्तरस्याम् दिशि देवतात्मा हिमालयः नाम नगाधिराजः अस्ति । सः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः ।
सञ्जीविनीटीका (मल्लिनाथः) अस्तीति । उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिद्धिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिद्धः । अधिको राजाधिराजः । `राजाहःसखिभ्यष्टच्` । न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पुर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - `कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ` ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । `प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा` इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - `स्यादिन्द्रवज्रा यदि तौ जगौ गः`। `उपेन्द्रवज्राजतजास्ततो गौ`। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति
Summary AI In the northern direction, there exists a divine-souled king of mountains named Himalaya. Stretching from the eastern to the western oceans, he stands like a measuring rod for the Earth.
सारांश AI उत्तर दिशा में स्थित देवताओं के स्वरूप हिमालय नामक पर्वतों का राजा, पूर्व और पश्चिम के दोनों समुद्रों में प्रविष्ट होकर पृथ्वी के मापदण्ड की भाँति स्थित है।
पदच्छेदः AI
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) there is
उत्तरस्याम्उत्तर (७.१) in the northern
दिशिदिश् (७.१) direction
देवतात्मादेवताआत्मन् (१.१) divine-souled
हिमालयःहिमआलय (१.१) Himalaya
नामनाम by name
नगाधिराजःनगअधिराज (१.१) the king of mountains
पूर्वापरौपूर्वअपर (२.२) eastern and western
तोयनिधीतोयनिधि (२.२) oceans
वगाह्यवगाह्य (अव√गाह्+ल्यप्) having penetrated
स्थितःस्थित (√स्था+क्त, १.१) stands
पृथिव्याःपृथिवी (६.१) of the Earth
इवइव like
मानदण्डःमानदण्ड (१.१) a measuring rod
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्त्यु त्त स्यां दि शि दे ता त्मा
हि मा यो ना गा धि रा जः
पू र्वा रौ तो नि धी गा ह्य
स्थि तः पृ थि व्या मा ण्डः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.