स मानसीं मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥

अन्वयः AI मेरुसखः स्थितिज्ञः सः कुलस्य स्थितये, पितॄणाम् मानसीम्, मुनीनाम् अपि माननीयाम्, आत्म-अनुरूपाम् कन्याम् मेनाम् विधिना उपयेमे ।
सञ्जीविनीटीका (मल्लिनाथः) स इति ॥ मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥` इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । `उपाद्यमः स्वकरणे` इत्यात्मनेपदम् । `तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥` इति ब्रह्माण्डपुराणात्
Summary AI That Himalaya, friend of Meru and knower of propriety, for the continuation of his lineage, duly married Mena, the mind-born daughter of the Pitris (ancestors), who was worthy of reverence even by sages and was a suitable match for himself.
सारांश AI मेरु के सखा और मर्यादा के ज्ञाता हिमालय ने पितरों की मानसी कन्या मेना से, जो मुनियों द्वारा पूजनीय और उनके सर्वथा अनुरूप थी, शास्त्रोक्त विधि से विवाह किया।
पदच्छेदः AI
सःतद् (१.१) he
मानसीम्मानसी (२.१) the mind-born
मेरुसखःमेरुसखि (१.१) the friend of Meru
पितॄणाम्पितृ (६.३) of the Pitris (ancestors)
कन्याम्कन्या (२.१) daughter
कुलस्यकुल (६.१) of the lineage
स्थितयेस्थिति (४.१) for the continuation
स्थितिज्ञःस्थितिज्ञ (१.१) the knower of propriety
मेनाम्मेना (२.१) Mena
मुनीनाम्मुनि (६.३) of the sages
अपिअपि even
माननीयाम्माननीय (√मन्+अनीयर्, २.१) worthy of reverence
आत्मानुरूपाम्आत्मन्अनुरूप (२.१) suitable for himself
विधिनाविधि (३.१) according to rites
उपयेमेउपयेमे (उप√यम् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) married
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मा सीं मे रु खः पि तॄ णां
न्यां कु स्य स्थि ये स्थि ति ज्ञः
मे नां मु नी ना पि मा नी या
मा त्मा नु रू पां वि धि नो ये मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.