Loading data... On slow networks this could take a few minutes.
100%

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य
सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं
शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥

अन्वयः AI प्रजापतिः यस्य यज्ञाङ्गयोनित्वम् धरित्रीधरणक्षमम् सारम् च अवेक्ष्य, तस्मै कल्पितयज्ञभागम् शैलाधिपत्यम् स्वयम् अन्वतिष्ठत् ।
सञ्जीविनीटीका (मल्लिनाथः) यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । `यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः` इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । `सारो बले स्थिरांशे च` इत्यमरः (अमरकोशः ३.३.१७९ ) । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । `सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती` इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । `पत्यन्तपुरोहितादिभ्यो यक्` (अष्टाध्यायी ५.१.१२८ ) इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-`शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः` इति
Summary AI Prajapati (the creator), observing that the Himalaya was the source of sacrificial requisites and possessed the strength to support the earth, personally bestowed upon it the sovereignty over all mountains, assigning it a share in sacrifices.
सारांश AI हिमालय को यज्ञ सामग्रियों का मूल कारण और पृथ्वी धारण करने में समर्थ मानकर ब्रह्मा ने स्वयं उसे यज्ञ-भाग का अधिकारी और पर्वतों का राजा नियुक्त किया।
पदच्छेदः AI
यज्ञाङ्गयोनित्वम्यज्ञअङ्गयोनित्व (२.१) the state of being the source of sacrificial requisites
अवेक्ष्यअवेक्ष्य (अव√ईक्ष्+ल्यप्) having observed
यस्ययद् (६.१) whose
सारम्सार (२.१) strength
धरित्रीधरणक्षमम्धरित्रीधरणक्षम (२.१) capable of supporting the earth
and
प्रजापतिःप्रजापति (१.१) Prajapati
कल्पितयज्ञभागम्कल्पित (√कॢप्+णिच्+क्त)यज्ञभाग (२.१) to whom a share in sacrifices was assigned
शैलाधिपत्यम्शैलआधिपत्य (२.१) sovereignty over mountains
स्वयम्स्वयम् personally
अन्वतिष्ठत्अन्वतिष्ठत् (अनु√स्था कर्तरि लङ् (परस्मै.) प्र.पु. एक.) bestowed
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ज्ञा ङ्ग यो नि त्व वे क्ष्य स्य
सा रं रि त्री क्ष मं
प्र जा तिः ल्पि ज्ञ भा गं
शै ला धि त्यं स्व न्व ति ष्ठत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.