Loading data... On slow networks this could take a few minutes.
100%

सप्तर्षिहस्तावचितावशेषा-
ण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि
प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥

अन्वयः AI अधः परिवर्तमानः विवस्वान् यस्य अग्रसरोरुहाणि, सप्तर्षिहस्तावचितावशेषाणि पद्मानि ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।
सञ्जीविनीटीका (मल्लिनाथः) सप्तर्षोति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्` (अष्टाध्यायी २.१.५० ) इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । `शेषाऽप्रधानसंतापे त्रिष्वन्यत्रोपयुज्यते` इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः रोहन्तीति रुहाणि । `इगुपधज्ञाप्रीकिरः कः` (अष्टाध्यायी ३.१.१३५ ) इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम्
Summary AI The sun (Vivasvan), while revolving below, awakens with its upward-turned rays the lotuses in the high-altitude lakes of the Himalaya—lotuses that are the leftovers from what the Seven Sages have plucked.
सारांश AI सप्तर्षियों द्वारा चुने जाने से शेष रह गए हिमालय के कमलों को नीचे की ओर स्थित सूर्य अपनी ऊपर उठती किरणों से खिलाता है।
पदच्छेदः AI
सप्तर्षिहस्तावचितावशेषाणिसप्तर्षिहस्तअवचित (अव√चि+क्त)अवशेष (२.३) which are leftovers from what was plucked by the hands of the Seven Sages
अधःअधः below
विवस्वान्विवस्वत् (१.१) the sun
परिवर्तमानःपरिवर्तमान (परि√वृत्+शानच्, १.१) revolving
पद्मानिपद्म (२.३) the lotuses
यस्ययद् (६.१) whose
अग्रसरोरुहाणिअग्रसरोरुह (२.३) lotuses in the high-altitude lakes
प्रबोधयतिप्रबोधयति (प्र√बुध् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) awakens
ऊर्ध्वमुखैःऊर्ध्वमुख (३.३) with upward-turned
मयूखैःमयूख (३.३) rays
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्त र्षि स्ता चि ता शे षा
ण्य धो वि स्वा न्प रि र्त मा नः
द्मा नि स्या ग्र रो रु हा णि
प्र बो त्यू र्ध्व मु खै र्म यू खैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.