Loading data... On slow networks this could take a few minutes.
100%

भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातै-
रासेव्यते भिन्नशिखण्डिबर्हः ॥

अन्वयः AI यत्-वायुः भागीरथीनिर्झरसीकराणाम् वोढा, मुहुः कम्पितदेवदारुः, भिन्नशिखण्डिबर्हः सन् अन्विष्टमृगैः किरातैः आसेव्यते ।
सञ्जीविनीटीका (मल्लिनाथः) भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:- कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । `पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्` इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । `अन्विष्टं मार्गितम्` इत्यमरः (अमरकोशः ३.१.१०४ ) । किरातैरासेव्यते
Summary AI The wind of this mountain, carrying sprays from the waterfalls of the Ganges, constantly shaking the Deodar trees, and ruffling the peacock feathers worn by the Kiratas, is enjoyed by these hunters as they search for deer.
सारांश AI गंगा की फुहारों को ढोने वाली और देवदारु वृक्षों को कंपायमान करने वाली वायु, जो मोरों के पंखों को बिखेर देती है, शिकारियों द्वारा थकान मिटाने हेतु सेवित होती है।
पदच्छेदः AI
भागीरथीनिर्झरसीकराणाम्भागीरथीनिर्झर–सीकर (६.३) of the sprays from the waterfalls of the Ganges
वोढावोढृ (√वह्+तृच्, १.१) the carrier
मुहुःमुहुः repeatedly
कम्पितदेवदारुःकम्पित (√कम्प्+क्त)देवदारु (१.१) shaking the Deodar trees
यद्वायुःयद्वायु (१.१) whose wind
अन्विष्टमृगैःअन्विष्ट (अनु√इष्+क्त)मृग (३.३) by those searching for deer
किरातैःकिरात (३.३) by the Kiratas
आसेव्यतेआसेव्यते (आ√सेव् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is enjoyed
भिन्नशिखण्डिबर्हःभिन्न (√भिद्+क्त)शिखण्डिन्बर्ह (१.१) ruffling the peacock feathers
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
भा गी थी नि र्झ सी रा णां
वो ढा मु हुः म्पि दे दा रुः
द्वा यु न्वि ष्ट मृ गैः कि रा तै
रा से व्य ते भि न्न शि ण्डि र्हः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.