Loading data... On slow networks this could take a few minutes.
100%

यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वारविलम्बिबिम्बा-
स्तिरस्करिण्यो जलदा भवन्ति ॥

अन्वयः AI यत्र यदृच्छया अंशुक-आक्षेप-विलज्जितानाम् किंपुरुषाङ्गनानाम् दरीगृहद्वारविलम्बिबिम्बाः जलदाः तिरस्करिण्यः भवन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । `प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा` इत्यमरः (अमरकोशः २.६.१२१ ) । `तिरसोऽन्यतरस्याम्` (अष्टाध्यायी ८.३.४२ ) इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः
Summary AI There, for the Kimpurusha women who are embarrassed when their garments are suddenly blown away by the wind, the clouds, hanging like curtains at the entrances of their cave-dwellings, serve as screens.
सारांश AI जहाँ किंपुरुष स्त्रियों के वस्त्र हटने से उत्पन्न लज्जा को गुफाओं के द्वार पर अचानक लटके हुए बादल परदे के समान ढंक कर दूर कर देते हैं।
पदच्छेदः AI
यत्रयत्र where
अंशुकाक्षेपविलज्जितानाम्अंशुकआक्षेपविलज्जित (वि√लज्ज्+क्त, ६.३) of those embarrassed by the snatching away of their garments
यदृच्छयायदृच्छया by chance
किंपुरुषाङ्गनानाम्किंपुरुषअङ्गना (६.३) of the Kimpurusha women
दरीगृहद्वारविलम्बिबिम्बाःदरीगृहद्वारविलम्बिन् (वि√लम्ब्)बिम्ब (१.३) whose forms hang at the entrance of cave-dwellings
तिरस्करिण्यःतिरस्करिणी (१.३) curtains
जलदाःजलद (१.३) clouds
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) become
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्रां शु का क्षे वि ज्जि ता नां
दृ च्छ या किं पु रु षा ङ्ग ना नाम्
री गृ द्वा वि म्बि बि म्बा
स्ति स्क रि ण्यो दा न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.