Loading data... On slow networks this could take a few minutes.
100%

लाङ्गूलविक्षेपविसर्पिशोभै-
रितस्ततश्चन्द्रमरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं
कुर्वन्ति वालव्यजनैश्चमर्यः ॥

अन्वयः AI यस्य सानुषु इतः ततः चन्द्रमरीचिगौरैः लाङ्गूलविक्षेपविसर्पिशोभैः वालव्यजनैः चमर्यः गिरिराजशब्दम् अर्थयुक्तम् कुर्वन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । `पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः` इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । `गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च` इति यादवः । `उपमानानि सामान्यवचनैः` (अष्टाध्यायी २.१.५५ ) इति समासः । वालव्यजनैश्चामरैर्यंस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः
Summary AI On this mountain, the female yaks (chamaris), with their bushy tails that serve as fans, make the title "King of Mountains" meaningful. They do so by waving their tails, which are as white as moonbeams and whose beauty spreads with every flick, here and there, as if fanning their king.
सारांश AI चमरियों की पूंछों के झटकने से फैलती चंद्रमा की किरणों जैसी श्वेत आभा, जो चमर के समान है, उस पर्वत के 'पर्वतराज' नाम को सार्थक करती है।
पदच्छेदः AI
लाङ्गूलविक्षेपविसर्पिशोभैःलाङ्गूलविक्षेपविसर्पिन् (वि√सृप्)शोभा (३.३) with beauty spreading from the flicking of their tails
इतस्ततःइतस्ततः here and there
and
चन्द्रमरीचिगौरैःचन्द्रमरीचिगौर (३.३) white as moonbeams
यस्ययद् (६.१) whose
अर्थयुक्तम्अर्थयुक्त (√युज्+क्त, २.१) meaningful
गिरिराजशब्दम्गिरिराजन्शब्द (२.१) the title 'King of Mountains'
कुर्वन्तिकुर्वन्ति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) make
वालव्यजनैःवालव्यजन (३.३) with their tails as fans
चमर्यःचमरी (१.३) the female yaks
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ला ङ्गू वि क्षे वि र्पि शो भै
रि स्त श्च न्द्र री चि गौ रैः
स्या र्थ यु क्तं गि रि रा ब्दं
कु र्व न्ति वा व्य नै श्च र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.