दिवाकराद्रक्षति यो गुहासु
लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्वमुच्चैःशिरसां सतीव ॥

अन्वयः AI यः गुहासु लीनम्, दिवा दिवाकरात् भीतम् इव अन्धकारम् रक्षति । नूनम् उच्चैःशिरसाम् क्षुद्रे अपि शरणम् प्रपन्ने सती इव ममत्वम् भवति ।
सञ्जीविनीटीका (मल्लिनाथः) दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । `दिवाविभानिशाप्रभाभास्करे-` त्यादिना टप्रत्ययः । `भीत्रार्थानां भयहेतुः` (अष्टाध्यायी १.४.२५ ) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः
Summary AI The Himalaya protects the darkness hidden in its caves, which seems to be afraid of the sun during the day. Indeed, the high-minded show affection even to the lowly who seek refuge with them, just like the virtuous.
सारांश AI हिमालय अपनी गुफाओं में छिपे अंधकार की सूर्य से रक्षा करता है, क्योंकि श्रेष्ठ जन शरण में आए हुए नीच प्राणी के प्रति भी अपनत्व का भाव रखते हैं।
पदच्छेदः AI
दिवाकरात्दिवाकर (५.१) from the sun
रक्षतिरक्षति (√रक्ष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) protects
यःयद् (१.१) who
गुहासुगुहा (७.३) in caves
लीनम्लीन (√ली+क्त, २.१) hidden
दिवादिवा by day
भीतम्भीत (√भी+क्त, २.१) frightened
इवइव as if
अन्धकारम्अन्धकार (२.१) darkness
क्षुद्रेक्षुद्र (७.१) to the lowly
अपिअपि even
नूनम्नूनम् indeed
शरणम्शरण (२.१) refuge
प्रपन्नेप्रपन्न (प्र√पद्+क्त, ७.१) who has sought
ममत्वम्ममत्व (१.१) affection
उच्चैःशिरसाम्उच्चैस्शिरस् (६.३) of the high-minded
सतीसत् (१.१) goodness (of the virtuous)
इवइव like
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
दि वा रा द्र क्ष ति यो गु हा सु
ली नं दि वा भी मि वा न्ध का रम्
क्षु द्रे ऽपि नू नं णं प्र न्ने
त्व मु च्चैः शि सां ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.