उद्वेजयत्यङ्गुलिपार्ष्णिभागा-
न्मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता
भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥

अन्वयः AI यत्र शिलीभूतहिमे मार्गे अङ्गुलिपार्ष्णिभागान् उद्वेजयति अपि, दुर्वहश्रोणिपयोधरार्ताः अश्वमुख्यः मन्दाम् गतिम् न भिन्दन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) उव्देजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिक्लेशयत्यपि मार्गे ।श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वकद्दिच्छतेः क्तः । `उपसर्गादृति धातौ` (अष्टाध्यायी ६.१.९१ ) इति वृध्दिः । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्समासः । `स्यात्किंनरः किंपुरुषस्तुरंगवदनो मयुः`॥ इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः
Summary AI There, even though the path with its frozen, stone-like snow distresses their toes and heels, the horse-faced Kinnara women, burdened by their heavy hips and breasts, do not quicken their slow, graceful gait.
सारांश AI मार्ग में जमी हुई बर्फ के कारण एड़ियों और उंगलियों में पीड़ा होने पर भी, भारी नितम्बों और स्तनों वाली किन्नर स्त्रियाँ अपनी स्वाभाविक मंद गति को नहीं छोड़तीं।
पदच्छेदः AI
उद्वेजयतिउद्वेजयति (उद्√विज् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) distresses
अङ्गुलिपार्ष्णिभागान्अङ्गुलिपार्ष्णिभाग (२.३) the toes and heels
मार्गेमार्ग (७.१) on the path
शिलीभूतहिमेशिलीभूतहिम (७.१) where the snow has become like stone
अपिअपि even though
यत्रयत्र where
not
दुर्वहश्रोणिपयोधरार्ताःदुर्वहश्रोणिपयोधरआर्त (१.३) pained by their heavy hips and breasts
भिन्दन्तिभिन्दन्ति (√भिद् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) break (quicken)
मन्दाम्मन्द (२.१) slow
गतिम्गति (२.१) gait
अश्वमुख्यःअश्वमुख (१.३) the horse-faced women (Kinnaris)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्वे त्य ङ्गु लि पा र्ष्णि भा गा
न्मा र्गे शि ली भू हि मे ऽपि त्र
दु र्व श्रो णि यो रा र्ता
भि न्द न्ति न्दां ति श्व मु ख्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.