वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥

अन्वयः AI यत्र दरीगृहोत्सङ्गनिषक्तभासः ओषधयः रजन्याम् वनितासखानाम् वनेचराणाम् अतैलपूराः सुरतप्रदीपाः भवन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि । `अग्नावोषधीषु च तेजो निधाय रविरस्तं याति` इत्यागमः । वनितानां सखायो वनितासखाः । `राजाहःसखिभ्यष्टच्` । तेषाम् । रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः । `चरेष्टः` (अष्टाध्यायी ३.२.१६ ) इति टप्रत्ययः । `तत्पुरुषे कृति बहुलम्` (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूरः । अनपेक्षिततैलसेका इत्यर्थः । सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीष्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः । तदुक्तम्- `आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः` इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्येत्पत्तिर्लक्षणा विभावना चेत्युभयोः संसृष्टिः
Summary AI There, at night, luminous herbs whose light clings to the interiors of cave-dwellings serve as love-lamps for the forest-dwellers and their female companions, requiring no oil to burn.
सारांश AI गुफाओं में अपनी पत्नियों के साथ विहार करने वाले वनवासियों के लिए वहां की चमकदार औषधियां रात्रि में बिना तेल के ही काम-क्रीड़ा के दीपकों का कार्य करती हैं।
पदच्छेदः AI
वनेचराणाम्वनचर (६.३) of the forest-dwellers
वनितासखानाम्वनितासखि (६.३) who have women as companions
दरीगृहोत्सङ्गनिषक्तभासःदरीगृहउत्सङ्गनिषक्त (नि√सञ्ज्+क्त)भास् (१.३) whose light clings to the interior of cave-dwellings
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) become
यत्रयत्र where
ओषधयःओषधि (१.३) herbs
रजन्याम्रजनी (७.१) at night
अतैलपूराःतैलपूर (१.३) requiring no filling of oil
सुरतप्रदीपाःसुरतप्रदीप (१.३) love-lamps
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
ने रा णां नि ता खा नां
री गृ हो त्स ङ्ग नि क्त भा सः
न्ति त्रौ यो न्या
तै पू राः सु प्र दी पाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.