चित्तनिर्वृतिविधायि विविक्तं
मन्मथो मधुमदः शशिभासः ।
संगमश्च दयितैः स्म नयन्ति
प्रेम कामपि भुवं प्रमदानाम् ॥

अन्वयः AI चित्त-निर्वृति-विधायि विविक्तम्, मन्मथः, मधु-मदः, शशि-भासः, दयितैः संगमः च, प्रमदानाम् प्रेम काम् अपि भुवम् स्म नयन्ति ।
English Summary AI Seclusion that brings peace of mind, the god of love, the intoxication of wine, the moonbeams, and union with their beloveds—all these together led the love of the women to some indescribable state.
सारांश AI मन की प्रसन्नता, एकांत, कामदेव, मदिरा का मद, चाँदनी और प्रियतम का समागम—ये सभी मिलकर स्त्रियों के प्रेम को किसी अनिर्वचनीय ऊँचाई पर ले गए।
घण्टापथव्याख्या (मल्लिनाथः) चित्तेति ॥ चित्तस्य निर्वृतिविधायि सुखकरं विविक्तं रह।'विविक्तं रहसि स्मृतम्' इति विश्वः ॥ मन्मथो मधुमदो मद्यमदः शशिभासश्चन्द्रिका दयितैः सह संगमश्च। वृद्धो यूना- (अष्टाध्यायी १.२.६५ ) इति निर्देशात्सहशब्दाप्रयोगेऽपि सहार्थे तृतीया । एतानि प्रमदानां स्त्रीणां प्रेम वियोगासहत्वावस्थासंभोगं कामपि भुवं कांचिद्दशां नयन्ति स्म । रत्यवस्थामप्यतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युरित्यर्थः । 'प्रेमाभिलाषो रागश्च स्नेहः प्रेमरतिस्तथा। शृङ्गारश्चेति संभोगः सप्तावस्थः प्रकीर्तितः॥' इत्युक्तं रसरत्नाकरे । 'प्रेमा दिदृक्षा रम्येषु तच्चिन्ताप्यभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया । तद्धियोगासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संभोगः सप्तधा क्रमः॥ इति ॥ क्रीडावस्थामाह
पदच्छेदः AI
चित्तनिर्वृतिविधायिचित्तनिर्वृतिविधायिन् (१.१) causing peace of mind
विविक्तम्विविक्त (१.१) seclusion
मन्मथःमन्मथ (१.१) Kama
मधुमदःमधुमद (१.१) intoxication from wine
शशिभासःशशिभास् (१.३) moonbeams
संगमःसंगम (१.१) union
and
दयितैःदयित (३.३) with the beloveds
स्मस्म (particle for past)
नयन्तिनयन्ति (√नी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) lead
प्रेमप्रेमन् (२.१) love
काम्किम् (२.१) to some
अपिअपि indescribable
भुवम्भू (२.१) state
प्रमदानाम्प्रमदा (६.३) of the women
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
चि त्त नि र्वृ ति वि धा यि वि वि क्तं
न्म थो धु दः शि भा सः
सं श्च यि तैः स्म न्ति
प्रे का पि भु वं प्र दा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.