अग्रसानुषु नितान्तपिशङ्गै-
र्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वा-
नाविवेश जलधिं नु महीं नु ॥

अन्वयः AI विवस्वान् नितान्त-पिशङ्गैः मृदु-करैः अग्र-सानुषु भूरुहान् अवलम्ब्य अस्त-शैल-गहनम् आविवेश नु, जलधिम् नु, महीम् नु?
English Summary AI The sun, holding onto the trees on the mountain peaks with its extremely tawny, soft rays, entered—was it the deep thickets of the setting mountain? Or the ocean? Or the earth?
सारांश AI शिखर के वृक्षों का कोमल किरणों से सहारा लेकर सूर्य मानो समुद्र, पृथ्वी या अस्ताचल की गुफाओं में समा गए।
घण्टापथव्याख्या (मल्लिनाथः) अग्रेति ॥ विवस्वान्सूर्योऽग्रेऽस्तशैलशिखरे ये सानवस्तेषु ये भूरुहास्तान्नितान्तपिशङ्गैरत्यन्तारुणैर्मृदुभिः करैरिव करैरंशुहस्तैरिति श्लिष्टरूपकम् । बलिहस्तांशवः कराः इत्यमरः (अमरकोशः ३.३.१७२ ) । यद्वा । करैर्मृदु श्लथमवलम्ब्य । अस्त इति शैलोऽस्तशैलः । अस्तस्तु चरमक्ष्माभृत् इत्यमरः (अमरकोशः २.३.२ ) । तस्य गहनं काननं नु जलधिं नु महींन्वाविवेश । तपनस्य पतनसंदेह एव दृष्टः । पतनं तु क्व चास्य तन्न ज्ञायते । शीघ्रभावादिति भावः । अत्र तपने पतनस्यारोप्यमाणस्य गहनाद्यनेकविषयत्वेन संदेहात्संदेहालंकारः॥
पदच्छेदः AI
अग्रसानुषुअग्रसानु (७.३) on the top peaks
नितान्तपिशङ्गैःनितान्तपिशङ्ग (३.३) with extremely tawny
भूरुहान्भूरुह (२.३) the trees
मृदुकरैःमृदुकर (३.३) soft rays
अवलम्ब्यअवलम्ब्य (अव√लम्ब्+ल्यप्) having clung to
अस्तशैलगहनंअस्तशैलगहन (२.१) the thicket of the setting mountain
नुनु or
विवस्वान्विवस्वत् (१.१) the sun
आविवेशआविवेश (आ√विश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) entered
जलधिंजलधि (२.१) the ocean
नुनु or
महींमही (२.१) the earth
नुनु or
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
ग्र सा नु षु नि ता न्त पि ङ्गै
र्भू रु हा न्मृ दु रै म्ब्य
स्त शै नं नु वि स्वा
ना वि वे धिं नु हीं नु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.