भर्तृषूपसखि निक्षिपतीना-
मात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफलया वनितानां
न स्थितं न विगतं हृदयेषु ॥

अन्वयः AI उप-सखि भर्तृषु आत्मनः निक्षिपतीनाम्, मधु-मद-उद्यमितानाम् वनितानाम् हृदयेषु विफलया व्रीडया न स्थितम् न विगतम् ।
English Summary AI For the women who, impelled by intoxication, were throwing themselves upon their lovers near their friends, their futile shame neither stayed nor departed from their hearts.
सारांश AI सखियों के सामने ही मदिरा के मद से उत्साहित स्त्रियाँ जब अपने पतियों पर स्वयं को न्योछावर करने लगीं, तब उनकी लज्जा न तो उनके हृदय में टिकी रही और न ही पूरी तरह समाप्त हुई।
घण्टापथव्याख्या (मल्लिनाथः) भर्तृष्विति ॥ उपसखि सखीसमीपे । समीपार्थेऽव्ययीभावः । आत्मनः स्वदेहान् । आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि इति वैजयन्ती । भर्तृषु निक्षिपतीनां निपातयन्तीनाम् । भर्तृणामुपरि पतन्तीनामित्यर्थः । आच्छीनद्योर्तुम् इति विकल्पान्नुमभावः । कुतः । मधुमदेनोद्यमितानां प्रेरितानाम् । न तु स्वेच्छयेति भावः । वनिता नामनुरक्तस्त्रीणाम् । वनिता जनितात्यर्थानुरागायां च योषिति इति विश्वः । हृदयेषु विफलया। अनुचिताचरणादिति भावः । व्रीडया न स्थितं न विगतम् । वैफल्यात्तस्या मदोपाधिकत्वाच्चेति भावः । अत एव नोभयनिषेधविरोधः ॥
पदच्छेदः AI
भर्तृषुभर्तृ (७.३) onto their lovers
उपसखिउपसखि near their friends
निक्षिपतीनाम्निक्षिपत् (नि√क्षिप्+शतृ, ६.३) of those throwing
आत्मनःआत्मन् (२.३) themselves
मधुमदोद्यमितानाम्मधुमदउद्यमित (उद्√यम्+क्त, ६.३) of those impelled by intoxication from wine
व्रीडयाव्रीडा (३.१) shame
विफलयाविफला (३.१) futile
वनितानाम्वनिता (६.३) of the women
not
स्थितम्स्थित (√स्था+क्त, १.१) stayed
not
विगतम्विगत (वि√गम्+क्त, १.१) departed
हृदयेषुहृदय (७.३) in the hearts
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
र्तृ षू खि नि क्षि ती ना
मा त्म नो धु दो द्य मि ता नाम्
व्री या वि या नि ता नां
स्थि तं वि तं हृ ये षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.