Loading data... On slow networks this could take a few minutes.
100%

रागजान्तनयनेषु नितान्तं
विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां
दर्पणेष्विव मुखेषु मदश्रीः ॥

अन्वयः AI सर्व-गा अपि मद-श्रीः वनितानाम् राग-जान्त-नयनेषु नितान्तम् विद्रुम-अरुण-कपोल-तलेषु मुखेषु दर्पणेषु इव ददृशे ।
English Summary AI Although the beauty of intoxication pervaded the entire body, it was seen most clearly in the faces of the women—as if in mirrors—which had eyes reddened at the corners with passion and cheeks as red as coral.
सारांश AI स्त्रियों के रागयुक्त नेत्रों और मूँगे के समान लाल कपोलों में मद की शोभा उसी प्रकार स्पष्ट दिखाई दे रही थी, मानो वे उनके मुख रूपी दर्पणों में समा गई हों।
घण्टापथव्याख्या (मल्लिनाथः) रागेति॥ वनितानां सर्वगापि सर्वाङ्गगतापि । अन्तात्यन्त- (अष्टाध्यायी ३.२.४८ ) इत्यादिना ड:।मदश्री रागेण कान्तानि नयनानि येषु तेषु विद्रुमवदरुणानि कपोलतलानि येषु तेषु मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः । अत्र मदश्री: सर्वगतापि मुखेष्वेव ददृश इति विरोधः। तस्य मुखविशेषणैः समाधानात्काव्यलिङ्गानुप्राणितो विरोधवदाभासोऽलंकारः । स चोपमया संसृज्यते ॥
पदच्छेदः AI
रागजान्तनयनेषुरागअन्तनयन (७.३) in which the eyes were reddened at the corners with passion
नितान्तम्नितान्तम् exceedingly
विद्रुमारुणकपोलतलेषुविद्रुमअरुणकपोलतल (७.३) in which the surface of the cheeks was red as coral
सर्वगासर्वगा (१.१) all-pervading
अपिअपि even though
ददृशेददृशे (√दृश् भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was seen
वनितानाम्वनिता (६.३) of the women
दर्पणेषुदर्पण (७.३) in mirrors
इवइव as if
मुखेषुमुख (७.३) in the faces
मदश्रीःमदश्री (१.१) the beauty of intoxication
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
रा जा न्त ने षु नि ता न्तं
वि द्रु मा रु पो ले षु
र्व गा पि दृ शे नि ता नां
र्प णे ष्वि मु खे षु श्रीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.