लोचनाधरकृताहृतरागा
वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां
व्यत्ययं विनिमयं नु वितेने ॥

अन्वयः AI लोचन-अधर-कृत-आहृत-रागा, वासित-आनन-विशेषित-गन्धा वारुणी पर-गुण-आत्म-गुणानाम् व्यत्ययम् नु विनिमयम् नु वितेने ।
English Summary AI The wine, which took its redness from the eyes and lips and whose fragrance was enhanced by the perfumed faces, seemed to cause a transposition, or perhaps an exchange, between its own qualities and the qualities of others (the women).
सारांश AI मदिरा ने नेत्रों और अधरों की लाली को हर लिया और बदले में मुख को अपनी सुगंध दे दी; मानो उसने और स्त्रियों के अंगों ने अपने गुणों का परस्पर विनिमय कर लिया हो।
घण्टापथव्याख्या (मल्लिनाथः) लोचनेति ॥ लोचने चाधरश्च लोचनाधरम् । समुद्राभ्राद्धः- इति व्यभिचारज्ञापकान्नात्राधरशब्दस्य पूर्वनिपातः । कृतश्चासावाहृतश्चेति विशेषणसमासः । लोचनाधरस्य कृताहृतो रागो यया सा तथोक्ता । लोचनयोः कृतरागाधरादासमन्ताद्धृतरागा चेत्यर्थः । षष्ठ्याश्चार्थसंबन्धात्सामान्यस्य योग्यविशेषे पर्यवसाननियमेनाधिकरणापादानार्थयोराक्षेपात् । तथा चाधरलोचनगुणयो रागतद्विरहयोः स्थानपरिवृत्तिं कृतवतीत्यर्थः । तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेनाननेन विशेषितोऽतिशयितो गन्धो यस्याः सा । यद्वा वासितानना चासावर्थादाननेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः। उभयथाप्याननसंक्रान्तस्वगन्धा स्वसंक्रान्ताननगन्धा चेत्यर्थः । एवंभूता वारुणी मदिरा परगुणात्मगुणानां परयोर्लोचनाधरयोर्गुणौ च परस्याननस्य गुण आत्मनो वारुण्या गुणश्च परगुणात्मगुणास्तेषां परगुणात्मगुणानां व्यत्ययं नु विनिमयं नु चितेने विस्तारयामास । चित्तेन प्रामादिकी वस्तुपरिवृत्तिर्व्यत्ययः । बुद्धिपूर्वा तु विनिमयः। अत्र तन्त्रोच्चरितस्य परगुणशब्दस्यावृत्त्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथंचिदगत्या सोढव्यः । उपमानपूर्वपदबहुव्रीहिवत् । तथा चायमर्थः । परगुणयोरधरलोचनगुणयो रागतद्विरहयोर्व्यत्ययं नु विनिमयं नु वितेने । तथा परगुणात्मगुणयोराननगन्धात्मगन्धयोश्च व्यत्ययं तु विनिमयं नु वितेने। अन्यथा कथमन्यस्मिन्नन्यधर्मोपलम्भः संभवतीति भावः। अत्र लोचनाधररागयोस्तदभावयोर्वा भेदेऽप्यभेदाध्यवसायादेकत्ववाचो युक्तिः । तस्मात्तन्मूलातिशयोक्त्यनुप्राणिता चेयं व्यत्ययविनिमययोरन्यतरकरणोत्प्रेक्षेति संक्षेपः।सा च प्रतीयमाना। व्यञ्जकाप्रयोगात्। नुशब्दस्तु संशये ॥
पदच्छेदः AI
लोचनाधरकृताहृतरागालोचनअधरकृत (√कृ+क्त)आहृत (आ√हृ+क्त)राग (१.१) which took its redness from the eyes and lips
वासिताननविशेषितगन्धावासित (√वस्+णिच्+क्त)आननविशेषित (वि√शिष्+णिच्+क्त)गन्ध (१.१) whose fragrance was enhanced by the perfumed faces
वारुणीवारुणी (१.१) the wine
परगुणात्मगुणानाम्परगुणआत्मन्गुण (६.३) of others' qualities and its own qualities
व्यत्ययम्व्यत्यय (२.१) transposition
विनिमयम्विनिमय (२.१) exchange
नुनु or
वितेनेवितेने (वि√तन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) caused
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
लो ना कृ ता हृ रा गा
वा सि ता वि शे षि न्धा
वा रु णी गु णा त्म गु णा नां
व्य त्य यं वि नि यं नु वि ते ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.