Loading data... On slow networks this could take a few minutes.
100%

स्वादितः स्वयमथैधितमानं
लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां
नैकरूपरसतामिव भेजे ॥

अन्वयः AI अथ स्वयम् स्वादितः, एधित-मानम् (सन्), प्रियतमैः सह लम्भितः, पीतः आसवः प्रमदानाम् प्रति-पदम् न-एक-रूप-रसताम् इव भेजे ।
English Summary AI The liquor—tasted by themselves, then offered by their lovers in a way that increased their pride, and then drunk together—seemed to attain a variety of different tastes and delights for the women at every stage.
सारांश AI स्वयं चखी गई, मान बढ़ाने वाली और प्रियतम के साथ पी गई सुरा स्त्रियों को हर पग पर विभिन्न रसों और अनुभवों वाली प्रतीत हुई।
घण्टापथव्याख्या (मल्लिनाथः) स्वादित इति ॥ स्वयं स्वादितः।आदौ स्वयमेवादाय पीतः, अथानन्तरं प्रियतमैरेधितंमानं वर्धितबहुसंमानं यथा तथा लम्भितो ग्राहितः । स्वहस्तेन पायित इत्यर्थः। ततः प्रियतमैः सह पीतः । युगपदेकपात्रेण पीत इत्यर्थः । आसवः प्रमदानां प्रतिपदं प्रतिवारं नैकरूपरसतामनेकविधस्वादुत्वम् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नञ्समासे नलोपः स्यात् । भेज इव प्रापेव । उपचारविशेषाद्भोज्येषु रसविशेषः स्यादिति भावः । आस्वादनादिपदार्थानामनेकरसताप्राप्तिहेतुत्वात्काव्यलिङ्गं तावदेकं स्वादनादीनामनेकधर्माणामेकस्मिन्नेव सर्वक्रमेण संबन्धात्पर्यायभेदश्च । तयोश्च संसृष्टयोरनेकरसत्वोत्प्रेक्षाबीजत्वात्तया सहाङ्गाङ्गिभावेन संकरः॥
पदच्छेदः AI
स्वादितःस्वादित (√स्वद्+क्त, १.१) tasted
स्वयम्स्वयम् by themselves
अथअथ then
एधितमानम्एधित (√एध्+क्त)मान (२.१) in a way that increased their pride
लम्भितःलम्भित (√लभ्+णिच्+क्त, १.१) offered
प्रियतमैःप्रियतम (३.३) by their dearest ones
सहसह with
पीतःपीत (√पा+क्त, १.१) drunk
आसवःआसव (१.१) the liquor
प्रतिपदम्प्रतिपदम् at every step
प्रमदानाम्प्रमदा (६.३) of the women
नैकरूपरसताम्एकरूपरसता (२.१) the state of having varied tastes
इवइव as if
भेजेभेजे (√भज् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) attained
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
स्वा दि तः स्व थै धि मा नं
म्भि तः प्रि मैः पी तः
वः प्र ति दं प्र दा नां
नै रू ता मि भे जे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.