कुप्यताशु भवतानतचित्ताः
कोपितांश्च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म
स्वाद्यते युवतिभिर्मधुवारः ॥

अन्वयः AI आशु कुप्यत, अनत-चित्ताः भवत, कोपितान् यूनः च वरिवस्यत, इति अनेकः उपदेशः इव मधु-वारः युवतिभिः स्म स्वाद्यते ।
English Summary AI The serving of wine was tasted by the young women as if it were manifold advice: "Get angry quickly, be unyielding in mind, and then appease the angered young men."
सारांश AI "शीघ्र क्रोध करो, फिर मान जाओ और प्रिय की सेवा करो" - मदिरापान का दौर स्त्रियों के लिए इन अनेक शिक्षाओं के समान रुचिकर प्रतीत हो रहा था।
घण्टापथव्याख्या (मल्लिनाथः) कुप्यतेति ॥ यूनः प्रियान्कुप्यत यूनां कोपं जनयत । नात्र क्रुधद्रुह- (अष्टाध्यायी १.४.३७ ) इत्यादिना यूनां संप्रदानत्वे चतुर्थी । तस्य ये प्रति कोपः इति नियमात् । अत्र कोपस्तावत्कृत्रिम इत्याश्वानतचित्ता अनुकूलचित्ता भवत । किंच कोपितास्तान्वरिवस्यत परिचरत । नमोवरिवश्चित्रङः क्यच् (अष्टाध्यायी ३.१.१९ ) इति क्यच् । वरिवसः परिचर्यायामित्यर्थे तस्य नियमश्च । इत्येवमनेकोऽनेकप्रकारो य उपदेशः प्रवर्तकवाक्यं स इव मधुवारो मधुपानावृत्तिः । मधुवारा मधुक्रमाः इत्यमरः (अमरकोशः २.१०.४१ ) । युवतिभिः स्वाद्यते स्म । मधुवारस्य कोपादिकार्यप्रवर्तकत्वसाम्यादुपदेश इवेत्युत्प्रेक्षा । अनियताः खलु मत्तचेष्टा इत्ति भाव: ॥ भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा । ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः
पदच्छेदः AI
कुप्यतकुप्यत (√कुप् कर्तरि लोट् (परस्मै.) म.पु. बहु.) get angry
आशुआशु quickly
भवतभवत (√भू कर्तरि लोट् (परस्मै.) म.पु. बहु.) be
अनतचित्ताःनत (√नम्+क्त)चित्त (१.३) with unbowed minds
कोपितान्कोपित (√कुप्+णिच्+क्त, २.३) the angered ones
and
वरिवस्यतवरिवस्यत (√वरिवस्य कर्तरि लोट् (परस्मै.) म.पु. बहु.) serve/appease
यूनःयुवन् (२.३) the young men
इतिइति thus
अनेकःअनेक (१.१) manifold
उपदेशःउपदेश (१.१) advice
इवइव like
स्मस्म (particle indicating past)
स्वाद्यतेस्वाद्यते (√स्वद् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is tasted
युवतिभिःयुवति (३.३) by the young women
मधुवारःमधुवार (१.१) the serving of wine
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
कु प्य ता शु ता चि त्ताः
को पि तां श्च रि स्य यू नः
त्य ने दे स्म
स्वा द्य ते यु ति भि र्म धु वा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.