पातुमाहितरतीन्यभिलेषु-
स्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां
सोत्पलानि च मधूनि युवानः ॥

अन्वयः AI युवानः तर्षयन्ति, अपुनरुक्तरसानि, सस्मितानि वधूनां वदनानि, सोत्पलानि मधूनि च पातुम् अभिलिषुः।
English Summary AI The young men desired to drink both the smiling faces of the women and the wines containing lotuses. Both were thirst-provoking, love-inspiring, and possessed an ever-new, unrepeated flavor.
सारांश AI युवक बार-बार स्त्रियों के उन मुस्कान युक्त मुखों और कमलों से सुवासित मदिरा का पान करने की इच्छा करने लगे, जिनमें अपूर्व रस भरा था।
घण्टापथव्याख्या (मल्लिनाथः) युवान आहितरतीनि वर्धितरागाण्यत एवापुनरुक्तरसानि पुनःपुनः पानेनाप्यपूर्वस्वादान्यत एव तर्षयन्ति तृष्णोत्पादकानि । अतृप्तिकराणीत्यर्थः । सस्मितानि वधूनां वदनानि सोत्पलानि मधूनि च पातुमभिलेषुरिच्छन्ति स्म । अत्र प्रस्तुतानामेव वदनानां मधूनां च पानक्रियौपम्यस्य गम्यत्वात्केवलं प्राकरणिकविषयतया तुल्ययोगितालंकारः। प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ इति लक्षणात् ॥
पदच्छेदः AI
पातुम्पातुम् (√पा+तुमुन्) to drink
आहितरतीनिआहित (आ√धा+क्त)रति (२.३) which inspire love
अभिलिषुःअभिलिषुः (अभि√लष् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) desired
तर्षयन्तितर्षयत् (√तृष्+णिच्+शतृ, २.३) thirst-provoking
अपुनरुक्तरसानिअपुनरुक्तरस (२.३) whose flavors are ever-new
सस्मितानिसस्मित (२.३) smiling
वदनानिवदन (२.३) faces
वधूनाम्वधू (६.३) of the women
सोत्पलानिउत्पल (२.३) with lotuses
and
मधूनिमधु (२.३) wines
युवानःयुवन् (१.३) The young men
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
पा तु मा हि ती न्य भि ले षु
स्त र्ष न्त्य पु रु क्त सा नि
स्मि ता नि ना नि धू नां
सो त्प ला नि धू नि यु वा नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.