पाणिपल्लवविधूननमन्तः
सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचा-
मस्त्रतामुपययुर्मदनस्य ॥

अन्वयः AI रहसि गद्गदवाचां योषितां पाणिपल्लवविधूननम्, अन्तः सीत्कृतानि, नयनार्धनिमेषाः च मदनस्य अस्त्रताम् उपययुः।
English Summary AI In private, the shaking of sprout-like hands, the soft hissing sounds, and the half-closed eyes of women with emotion-choked voices all became weapons for Madana, the god of love.
सारांश AI हाथों को झटकना, सीत्कार, अधखुले नेत्र और गदगद वाणी - एकांत में स्त्रियों के ये सभी हाव-भाव कामदेव के अस्त्रों में परिवर्तित हो गए।
घण्टापथव्याख्या (मल्लिनाथः) पाणीति ॥ रहस्येकान्त इति विश्रम्भातिशयोक्तिः । गद्गदवाचां स्खलद्भिरां योषितां संबन्धीनि पाणिपल्लवयोर्विधूननं कम्पनमन्तः सीत्कृतानि सीत्काराः । एतेन कुट्टमिताख्यो भाव उक्तः। अधरपीडनादौ सुखेऽपि दुःखवदुपचारः कुट्टमितम् इति लक्षणात् । नयनानामर्धनिमेषा अर्धनिमीलितानि । रहस्येकान्ते गद्गदवाचां योषितामिति विशेषणसामर्थ्याद गद्गदकण्ठत्वं चेत्येतानि मदनस्यास्त्रतामुपययुः । अस्त्रवत्पुंसामुद्दीपनान्यासन्नित्यर्थः । अत्र सीत्कारार्धनिमेषादिना सुखपारवश्यं व्यज्यते । तदुक्तं रतिरहस्ये—स्वस्तता वपुषि मीलनं दृशोर्मूर्च्छना च रतिलाभलक्षणम् । श्लेषयेत्स्वजघनं मुहुर्मुहुः सीत्करोति गतलज्जिताकुला ॥ इति ॥ अथ मधुपानवर्णनमारभते-पातुमित्यादिना ॥
पदच्छेदः AI
पाणिपल्लवविधूननम्पाणिपल्लवविधूनन (१.१) The shaking of sprout-like hands
अन्तःअन्तर् inwardly
सीत्कृतानिसीत्कृत (१.३) hissing sounds of pleasure/pain
नयनार्धनिमेषाःनयनअर्धनिमेष (१.३) the half-closing of the eyes
योषिताम्योषित् (६.३) of the women
रहसिरहस् (७.१) in private
गद्गदवाचाम्गद्गदवाच् (६.३) whose speech was choked with emotion
अस्त्रताम्अस्त्रता (२.१) the state of being weapons
उपययुःउपययुः (उप√या कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) attained
मदनस्यमदन (६.१) of Kama (the god of love)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
पा णि ल्ल वि धू न्तः
सी त्कृ ता नि ना र्ध नि मे षाः
यो षि तां सि द्ग वा चा
स्त्र ता मु यु र्म स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.