Loading data... On slow networks this could take a few minutes.
100%

आदृता नखपदैः परिरम्भा-
श्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्ति-
र्वाम एव सुरतेष्वपि कामः ॥

अन्वयः AI परिरम्भाः नखपदैः आदृताः, चुम्बितानि घनदन्तनिपातैः आदृतानि। अतः सौकुमार्यगुणसम्भृतकीर्तिः कामः सुरतेषु अपि वामः एव।
English Summary AI Embraces were accompanied by nail marks, and kisses by deep teeth marks. Therefore, Kama, whose fame is built on the quality of tenderness, is indeed perverse even in the acts of love.
सारांश AI नख-क्षत युक्त आलिंगन और दंत-क्षत युक्त चुंबन दर्शाते हैं कि अत्यंत सुकुमार स्वभाव वाला कामदेव भी रति-क्रीड़ा के समय कठोर हो जाता है।
घण्टापथव्याख्या (मल्लिनाथः) आदृता इति ॥ परिरम्भा आलिङ्गनानि नखपदैर्हेतुभिरादृता अभिमताः । हेतौ (अष्टाध्यायी २.३.२३ ) इति तृतीया । तथा चुम्बितानि चुम्बनानि घनदन्तनिपातैर्गाढदन्तक्षतैर्हेतुमिरादृतानीति लिङ्गविपरिणामः । सुरतसुखोद्दीपकत्वान्नखदन्तक्षतपूर्वकेष्वालिङ्गनचुम्बनेष्वादरः संवृत्त इत्यर्थः । ननु सुकुमारे कामतन्त्रे कथं पीडाकरेष्वादर इति न वाच्यमित्याहसौकुमार्येति । सौकुमार्यमेव गुणस्तेन संभृतकीर्तिर्लब्धयशाः कामः सुरतेषु संभोगेष्वपि । न केवलं विप्रलम्भेष्विति भावः । वामः क्रूर एव । सुकुमार काम इति वादमात्रम् । वस्तुतस्तु पीडयन्नेव सुखमावहतीति भावः । सामान्येन विशेषणसमथेनरूपोऽर्थान्तरन्यासः ॥ अथाभ्यन्तरं रतमाह
पदच्छेदः AI
आदृताःआदृत (आ√दृ+क्त, १.३) were honored/accompanied
नखपदैःनखपद (३.३) by nail marks
परिरम्भाःपरिरम्भ (१.३) Embraces
चुम्बितानिचुम्बित (१.३) kisses
घनदन्तनिपातैःघनदन्तनिपात (३.३) by deep teeth marks
सौकुमार्यगुणसम्भृतकीर्तिःसौकुमार्यगुणसम्भृत (सम्√भृ+क्त)कीर्ति (१.१) he whose fame is built on the quality of tenderness
वामःवाम (१.१) contrary/perverse
एवएव indeed
सुरतेषुसुरत (७.३) in lovemaking
अपिअपि even
कामःकाम (१.१) Kama (love)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
दृ ता दैः रि म्भा
श्चु म्बि ता नि न्त नि पा तैः
सौ कु मा र्य गु म्भृ की र्ति
र्वा सु ते ष्व पि का मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.