न स्रजो रुरुचिरे रमणीभ्य-
श्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते
रम्यतां प्रियसमागम एव ॥

अन्वयः AI विरहे रमणीभ्यः स्रजः, चन्दनानि वा मदिरा न रुरुचिरे। हि रतेः साधनेषु प्रिय-समागमः एव रम्यताम् उपधत्ते।
English Summary AI In separation, garlands, sandal pastes, or wine were not pleasing to the lovely women. This is because, among the accessories of love, only union with the beloved bestows charm upon them.
सारांश AI विरह की अवस्था में स्त्रियों को न मालाएँ अच्छी लगीं, न चंदन और न ही मदिरा; वास्तव में रति के साधनों में रमणीयता तभी आती है जब प्रियतम का समागम निकट हो।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । रुच्यर्थानां प्रीयमाणः (अष्टाध्यायी १.४.३३ ) इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात्प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपधत्त आधत्ते । तदभावादरुचिर्युक्तैवेत्यर्थः । अतएव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । पोरदुपधात् (अष्टाध्यायी ३.१.९८ ) इति यत्प्रत्ययः । कृत्यल्युटो बहुलम् (अष्टाध्यायी ३.३.११३ ) इत्यधिकरणार्थः ॥
पदच्छेदः AI
not
स्रजःस्रज् (१.३) garlands
रुरुचिरेरुरुचिरे (√रुच् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) were pleasing
रमणीभ्यःरमणी (४.३) to the lovely women
चन्दनानिचन्दन (१.३) sandal pastes
विरहेविरह (७.१) in separation
मदिरामदिरा (१.१) wine
वावा or
साधनेषुसाधन (७.३) to the accessories
हिहि because
रतेःरति (६.१) of love
उपधत्तेउपधत्ते (उप√धा कर्तरि लट् (आत्मने.) प्र.पु. एक.) bestows
रम्यताम्रम्यता (२.१) charm
प्रियसमागमःप्रियसमागम (१.१) union with the beloved
एवएव alone
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
स्र जो रु रु चि रे णी भ्य
श्च न्द ना नि वि हे दि रा वा
सा ने षु हि ते रु त्ते
म्य तां प्रि मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.