Loading data... On slow networks this could take a few minutes.
100%

अंशुपाणिभिरतीव पिपासुः
पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यं-
ल्लोहितं वपुरुवाह पतङ्गः ॥

अन्वयः AI पतङ्गः अतीव पिपासुः (सन्) अंशु-पाणिभिः पद्म-जम् मधु भृशम् रसयित्वा, क्षीबताम् गतः इव, क्षितिम् एष्यन् लोहितम् वपुः उवाह ।
English Summary AI The sun (Patanga), being very thirsty and having excessively drunk the lotus-born nectar with its ray-hands, bore a red body as if intoxicated while descending to the earth.
सारांश AI किरणों रूपी हाथों से कमलों का मकरंद पीकर मतवाले हुए सूर्य ने पृथ्वी की ओर आते समय लाल वर्ण धारण कर लिया।
घण्टापथव्याख्या (मल्लिनाथः) अंशुपाणिभिरिति ॥ पतङ्गः सूर्यः । पतङ्गः पक्षिसूर्ययोः इत्यमरः । अतीव निर्भरम् । अत्यतीव च निर्भरे इत्यमरः । पातुमिच्छुः पिपासुस्तृषितः सन् । पिबतेः सन्नन्तादुप्रत्ययः । अंशव एवं पाणयस्तैः पद्मेषु जातं पद्मजं मधु मध्वेव । मध्विति श्लिष्टं रूपकम् । मकरन्दमद्यमित्यर्थः । मधु मद्ये पुष्परसे इत्यमरः (अमरकोशः ३.३.११० ) । भृशमत्यन्तं रसयित्वास्वाद्य क्षीबतां मत्तत्वं गत इवेत्युत्प्रेक्षा । मत्ते शौण्डोत्कटक्षीबाः इत्यमरः (अमरकोशः ३.१.२३ ) । क्षितिमेष्यन्गमिष्यंल्लोहितं रक्तं वपुरुवाह । यथा मत्तः क्षीबतया क्षितौ लुठति रज्यते च तद्वदिति भावः । सूर्यस्य क्षितिविलयनमस्तमय इत्यागमः । अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः ॥
पदच्छेदः AI
अंशुपाणिभिःअंशुपाणि (३.३) with its ray-hands
अतीवअतीव very much
पिपासुःपिपासु (√पा+सन्+उ, १.१) desirous of drinking
पद्मजंपद्म (२.१) lotus-born
मधुमधु (२.१) nectar
भृशंभृशम् excessively
रसयित्वारसयित्वा (√रस्+णिच्+क्त्वा) having tasted
क्षीबताम्क्षीबता (२.१) intoxication
इवइव as if
गतःगत (√गम्+क्त, १.१) gone to
क्षितिम्क्षिति (२.१) to the earth
एष्यन्एष्यत् (√इ+शतृ, १.१) about to go
लोहितंलोहित (२.१) red
वपुःवपुस् (२.१) body
उवाहउवाह (√वह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) bore
पतङ्गःपतङ्ग (१.१) the sun
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
अं शु पा णि भि ती पि पा सुः
द्म जं धु भृ शं यि त्वा
क्षी ता मि तः क्षि ति मे ष्यं
ल्लो हि तं पु रु वा ङ्गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.